________________
लुप्तसंवत्सर-समसप्तकदोषौ ] शुभाशुभप्रकरणम् । . चूडां विवाहं च वर्जयेन्मकरे गुरौ ॥' इति । अतोऽन्येषु देशेषु मंगलं कार्यमेवेत्यर्थतः सिद्धम् । व्यवहारचंडेश्वरे तु विशेषः-'नीचराशिगतो जीवः प्रशस्तः सर्वकर्मसु । नीचांशकगतस्त्याज्यो यस्मादशेषु नीचता ॥' इति । अत एव वामनपुराणे-'वापीकूपतडागादि निषिद्धं सिंहगे गुरौ । मकरस्थेऽपि तत्कार्य न दोषः काललोपतः ॥' इति । काललोपो नाम कालनिषेधः, स इह नास्ति । निषेधवाक्यस्य देशपरत्वादशपरत्वाचेति भावः । गरुडपुराणेऽपि—'यदा सिंहगतो जीवो नैव कल्याणमाचरेत् । मकरस्थेऽपि कर्तव्यं नात्र कार्या विचारणा ॥' इति । अत्रापि पूर्वोक्त एवाशयः ॥ ५२ ॥
अथ लुप्तसंवत्सरदोष सापवाद वंशस्थवृत्तेनाहगोजात्यकुंभेतरभेऽतिचारगो नो पूर्वराशिं गुरुरेति वक्रितः। तदा विलुप्ताब्द इहातिनिंदितः शुभेषु रेवासुरनिम्नगांतरे॥५३॥
गोऽजांत्येति ॥गौः-वृषः, अजः मेषः, अंत्यः मीनः, कुंभः; एभ्यः इतरभे अन्यस्मिन् कस्मिंश्चिद्राशौ स्थितो गुरुराक्रांतराशेः सकाशादग्रिमराशौ महातिचारेण समागतः सन् पश्चात्कियनिर्दिनैर्वक्रितो यदा पूर्वराशिं भुक्तराशिं नो एति तदा विलुप्ताब्दः लुप्तसंवत्सर उच्यते । स विलुप्ताब्द इह शुभकृत्येष्वतिनिंदितः, निषिद्ध इत्यर्थः । तदुक्तं व्यवहारोच्चये- 'अतिचारगतो जीवस्तं राशिं नैति चेत्पुनः । लुप्तसंवत्सरो ज्ञेयो गर्हितः सर्वकर्मसु ॥' इति । यदा तु गोऽजांत्यकुंभेषु पूर्वराशेः सकाशान्महातिचारेणायाति पूर्वराशिं च नैति तदा न लुप्तसंवत्सरदोषः। यदाह गुरुः-'मेषे वृषे झषे कुंभे यद्यतीचारगे गुरौ । न तत्र काललोपः स्यादित्याह भगवान् यमः॥' इति । काललोपः कालदौष्टयं । यदि तु दशैकादश वा मासान्भुक्त्वा यस्मिन्कस्मिंश्चिद्राशावतिचारेण गुरुः समायाति पूर्व राशिं च न गच्छति तदा लुप्तसंवत्सर एव नास्ति । यदाह च्यवनः-'मासान्दशैकादश वा प्रयुज्य राशेर्यदा राशिमुपैति जीवः । भुंक्ते न पूर्व च पुनस्तथापि न लुप्तसंवत्सरमाहुराः ॥' इति । अथ पूर्वराशिभेदेन परिहारमुक्त्वेदानी देशभेदेन परिहारमाह-लुप्तसंवत्सरो रेवा नर्मदा सुरनिम्नगा गंगा तयोर्नद्योरंतरे मध्ये निषिद्धः । उक्तं च-'लुप्ताब्ददोषोऽत्रिमतेन मध्ये सोमोभवायाः सुरनिम्नगायाः।' इति । केषुचिद्राशिषु लुप्तसंवत्सरदोषातिशयोऽस्तीत्युक्तं सारसागरे-'अतिचारगते जीवे धनुःकर्कटमीनगे । लुप्तसंवत्सरो ज्ञेयो विवर्यः सर्वकर्मसु ॥' अन्यैर्विवाहादिनिषेधकं समसप्तकाख्यं दोषांतरमप्युक्तम् । यदाह नारदः–'समदृष्टिगुरुः शुक्रस्तन्मासे तु प्रयत्नतः । विवाहादि न कुर्वीत नर्मदातीर उत्तरे ॥' इति । गुरुरपि-'यदा जीवसितौ चक्रे परस्परनिरीक्षितौ । सप्तमस्थौ तदा दोषो मूढत्वादतिरिच्यते ॥' इति । वसिष्ठोऽपि-'समसप्तकयोर्जीवशुक्रयोश्च परस्परम् । तदा मूढसमो दोषः शुभकार्यविनाशनः ॥' इति ॥ ५३॥