________________
मुहूर्तचिंतामणिः। [मकरस्थगुरुपरिहारः न्विता ॥' इति राजमार्तडोक्तेः । अथ देशभेदेन द्वितीयः परिहार उच्यते । अथ गोदोत्तरतः गोदावरी नदी तस्या उत्तरदिशि भागीरथी गंगा तस्या याम्यतटं दक्षिणकूलं यावन्मर्यादीकृत्य गोदावरीगंगांतरालवर्ती यो देशस्तत्र सिंहस्थगुरुर्वयो नान्यत्र देशे। अन्येषु देशेषु न सिंहस्थगुरुदोषः । तदाह लल्ल:-'गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् । तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥' इति । अर्थाद्गोदावरीदक्षिणे देशे भागीरथ्युत्तरे देशे च सिंहस्थगुरुदोषो नास्ति । यदाह वसिष्ठः-'भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तटे। विवाहो व्रतबंधो वा सिंहस्थज्ये न दुष्यति ॥ मृगेंद्रसंस्थिते जीवे मध्यदेशे करग्रहः । मृत्युयोगो मृत्युदः स्याईपत्योः पंचवर्षतः॥' इति । अत्र विवाहव्रतबंधावेव न निषिद्धौ। आभ्यामन्यानि शुभकर्माणि तु निषिद्धान्येव । अपवादस्य संकोचाश्रयत्वादुपलक्षणत्वायोगात् । अथ सूर्यराशिवशेन तृतीयः परिहार उच्यते । तपनेऽपि मेषे सूर्ये मेषराशी विद्यमाने सति वा सिंहस्थगुरोर्दोषो नास्ति । 'मंगलानीह कुर्वीत सिंहस्थो वाक्पतियंदा। भानौ मेषगते सम्यगित्याहुः शौनकादयः ॥' इति ज्योतिर्निबंधोक्तेः। अन्यच्च तत्रैव-सिंहगते सुरमंत्रिणि कन्या मेषगते तपने परिणीता । भूषणरत्नयुता च सुशीला सत्यवती सुतकीर्तिसमेता ॥' इति ॥४९ - सिंहराशिगतगुरुनिषेधवाक्यानां प्रतिप्रसववाक्यानां च निर्गलितार्थमनुष्टुब्द्वयेनाह. मघादिपंचपादेषु गुरुः सर्वत्र निंदितः।
गंगागोदांतरं हित्वा शेषांघ्रिषु न दोषकृत् ॥५०॥
मेषे सद्वतोद्वाही गंगागोदांतरेऽपि च । . सर्वः सिंहगुरुर्वर्ण्यः कलिंगे गौडगुर्जरे ॥५१॥ . मघादिपंचेति । मेषेऽर्के इत्यादि च ॥ श्लोकद्वयं स्पष्टार्थम् ॥५०॥५१॥ • अथ मकरस्थितगुरोः प्रकारद्वयेन परिहारं शालिन्याहरेवापूर्वे गंडकीपश्चिमे च शोणस्योदग्दक्षिणे नीच इज्यः । वो नायं कौंकणे मागधे च गौडे सिंधौ वर्जनीयः शुभेषु ॥५२॥
रेवापूर्वे इति ॥ रेवा नर्मदानदी तस्याः पूर्वे भागे गंडकी नदी तस्याः पश्चिमे च विभागे शोणनदस्योत्तरे दक्षिणे च विभागे नीच इज्यः मकरस्थगुरुर्न वयः । एषु देशेषु मकरस्थितगुरोदोषो नास्ति । तदुक्तं लल्लेन'नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे। गंडक्याः पश्चिमे भागे मकरस्थो न दोषभाक् ॥' अर्थादन्येषु देशेषु निषिद्ध एव । तद्देशज्ञानार्थं द्वितीयः परिहारः। अयं मकरस्थितगुरुः कौंकणे देशे मागधे देशे च गौडदेशे सिंधुदेशे अटकाख्यनगराधस्तात् सिंधु म नदोऽस्ति तत्पारे शुभेषु शुभकृत्येषु वयों निषिद्धः। उक्तं च दैवज्ञमनोहरे-'मागधे गौडदेशे च सिंधुदेशे च कौंकणे। व्रतं . १ सन्तौ च तौ व्रतोद्वाहौ इति विग्रहः । व्रतोद्वाही संतौ शुभावित्यर्थः ।