________________
सिंहस्थगुरुपरिहाराः] शुभाशुभप्रकरणम् १ । भूतामहमभिजाने, पक्षस्यैकतिथिक्षयसद्भावात् । तथाऽमावास्यां पंचदशी पंचदशाहोरात्रे पूर्व जातामहमभिजाने, पक्षस्य तिथिक्षयवृद्धिराहित्यात् । तथाऽमावास्यां षोडशी षोडशाहोरात्रे पूर्व जातामहमभिजाने, पक्षस्यैकतिथिवृद्धिसद्भावात् । पक्षमध्ये तिथिद्वयवृद्धिस्तु खपुष्पतुल्यैव भूतपूर्वामित्यनेन गणितसाध्यपंचांगेष्वनेकशो दृष्टत्वादाश्चर्याभावोऽभिहितः । अतः फलमप्यस्य वराहेण सामान्यत उक्तम्-'शुक्ले पक्षे संप्रवृद्धे प्रवृद्धि ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च । हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्व तत्फलं व्यत्ययेन ॥' इति । व्यत्ययस्तु शुक्लपक्षापेक्षया। अत्रातिदुष्टफलाश्रवणान्नोत्पातरूपत्वमस्य पक्षस्य । परमस्मिन्नवसरे त्विमा पंचांगे मया दृष्टाममावास्यां त्रयोदशी प्रतिपत्तिथिमारभ्य त्रयोदशाहोरात्रे तिथिद्वयहासाजातां कदाप्यननुभूतांनाहमभिजाने इति महानुत्पातो मया दृष्टोऽतो युद्धान्निवर्तस्वेति वाक्यतात्पर्यार्थः॥ ननु 'प्रकृतेरन्यत्वमुत्पातः' इत्युत्पातलक्षणानाक्रांतत्वमत्रास्ति, गणितज्ञानसाध्य. त्वाच्छुक्रास्तादिवत् । नहि शुक्रास्तादिरुत्पातः केनाप्यंगीक्रियते। सत्यम् । यद्यपि पक्षद्वयमध्ये तिथीनां क्षयगामित्वात्तिथिद्वयहासो दृश्यते बहुधा गणितसाध्यत्वात्तथाप्यस्मिन्कालेऽप्यस्मि वैकस्मिन्पक्षे प्रतिपदमारभ्य तिथिद्वयहाससद्भावाबहुभिर्वषरमावास्या त्रयोदशी जाता दृष्टा, तादृशी च मया कदापि नानुभूतेति महोत्पातरूपत्वमस्य पक्षस्य युक्तमेव संपन्नमिति । 'ज्योतिर्विन्नीलकण्ठस्य गोविंदेन तनूभुवा । त्रयोदशाहपक्षस्य तत्त्वं सम्यक् प्रकाशितम् ॥' इति । अथ तद्वत्तेन प्रकारेण दन्तरत्नादिभूषां दन्ता हस्तिदन्तास्तत्संबंधिनी भूषां रत्नसंबंधिनी भूषां तथादिशब्दात्सुवर्णमणिसंबंधिनी भूषामपि वज्यांप्रोचुः। सर्वस्मिन्निषिद्धे काले इत्यर्थः । यदाह राजमार्तड:-'यात्रां चूडां विवाहं श्रुतिविवरविधि शंखसमप्रवेशं प्रासादोद्यानहम्यं सुरनरभवनारंभविद्याविधानम् । मौंजीबन्धं प्रतिष्ठां मणिकनकरदाधारणं कुर्वतो ये मृत्युः सिंहस्थितेज्ये गुरुदिनकरयोरेकराशिस्थयोश्च ॥' इति । सिंहस्थगुरोरुपलक्षणत्वाद्र्वस्तादावपि प्रथमकर्तव्यसुवर्णादिधारणं वय॑मित्यर्थः ॥ ४८ ॥ ___ अथ सिंहस्थगुरोः प्रकारत्रयेण परिहारमिंद्रवज्रयाहसिंहे गुरौ सिंहलवे विवाहो नेष्टोऽथ गोदोत्तरतश्च यावत् । भागीरथीयाम्यतटं हि दोषो नान्यत्र देशे तपनेऽपि मेषे॥४९॥ • सिंह इति ॥ अथ प्रथममंशभेदेन परिहार उच्यते । गुरौ सिंहस्थिते सत्यपि सिंहांशे तृतीयांशसहितत्रयोदशांशकेभ्योऽनन्तरं १३।२० तृतीयांशसहितांशत्रयं ३।२० पंचमो नवांशः सिंहांशस्तत्र गुरौ सति विवाहो नेष्टो निषिद्धः। उक्तं च ज्योतिर्निबंधे राजमार्तडेन-'सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः । सर्वदेशेष्वयं त्याज्यो दंपत्योर्निधनप्रदः॥' इति । विशेषमाह वसिष्ठः-"सिंहे सिंहांशके जीवे कलिंगे गौडगुर्जरे । कालमृत्युरयं योगो दंपत्योनिधनप्रदः ॥' इति । अतोऽवशिष्टेष्वंशेषु विवाहादि शुभं भवतीत्यर्थः। 'सिंहेऽपि भगदैवत्ये गुरौ पुत्रवती भवेत् । अत्यंतसुभगा साध्वी धनधान्यसम