________________
मुहूर्तचिंतामणिः । [त्रयोदशाहपक्षस्य प्रतिपत्तिः त्रयोदशदिनात्मकत्वमजनिष्ट । यदि प्राग्लक्षणलक्षितस्य पक्षस्य त्रयोदशाहोरात्रसंबंधो विवक्ष्यते तदा पक्षस्य त्रयोदशदिनात्मकता खपुष्पतुल्यैव भवेत् । यतोपचयाभिमुखत्वात्तिथीनां मध्ये एकस्या एव तिथेः क्षयः स्यान द्वयोस्तिथ्योस्तदा पक्षस्य चतुर्दशदिनात्मकता संभवति । 'पक्षस्य मध्ये 'द्वितिथी पतेतां तदा भवेगौरवकालयोगः । पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ॥' इति वाक्यावयोस्तिथ्योरेव क्षये पक्षस्य त्रयोदशदिनात्मकता संभवेत् । सा चाल्पावशिष्टप्रतिपत्संभवे एव भवेदिति निष्कृष्टोऽर्थः । अत्रैवंविधमन्यदप्युदाहरणम्-विंशत्युत्तरपञ्चदशशती १५२० मिते शककाले कार्तिकशुक्लपक्षे जातमस्ति तदेवंविधम् । एवं च यदाकदाचिच्छककाले पञ्चदशीतिथिः गुरुवारे घटिकैका १, पुनस्तस्मिन्नेव वारे प्रतिपत् ५८ क्षयगता, ततस्तस्मिन्नेव वारे पुनर्द्वितीया संलग्ना, पुनः प्रातरारभ्य शुक्रवारसंबंधेन द्वितीया संपूर्णाभूत् , पुनः क्षयाभिमुखत्वात्तिथीनां चतुर्दश्याः पंचदश्या वा क्षयः संवृत्तस्तदा पञ्चदशी तिथिर्गुरुवार एव समभूत्तदा चतुर्दशदिनात्मक एव पक्षो भवति । यतः प्रतिपत्संबंधः शुक्रवारे एकपलात्मकोऽपि नाभूत्किंतु गुरुवारेणैव । ननु 'पक्षस्य मध्ये द्वितिथी पतेताम्' इति लक्षणाचयोदशदिनात्मकः पक्षो भविष्यतीति चेन्न । यतोऽत्र मध्यशब्दः पठ्यते स यद्यप्यष्टमीतिथिमुत षष्ट्यादितिथिपञ्चकात्मकविभागमाक्षिपति तथापि 'द्वितिथी पतेताम्' इति वाक्यार्थासंभव एव स्यात् । संभवस्तु वाक्यार्थे लक्षणयोपयुज्यते । अतो 'यदा हि पक्षे' इति सप्तम्यंतपदे वक्तव्ये मध्यपदोच्चारणसामर्थ्यादाक्षिसयोरायंतयोस्तिथ्योर्निवृत्तिमाह स इति वाक्यार्थोऽवगम्यते । एवं सति प्रतिपत्पंचदश्योर्युगपत्क्षये दोषवत्ता नैव भवति किंतु द्वितीयामारभ्य चतुर्दश्यंतं तिथिद्वयहासे त्रयोदशदिनात्मकः पक्षोऽतिदोषावहो भवति । यद्येवं द्वितीयापंचदश्योः क्षयेऽतिदोषवत्ता न स्यादिष्यते च तत्रापि । सत्यम् । नहीदमेव वचोऽतिनिर्णायकं किंतु त्रयोदशदिने पक्ष इत्यनेनैकवाक्यतामापनं सत् । 'संभवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम्' इत्युक्तेः । कथं ? तिथिद्वयक्षयवान् त्रयोदशाहोरात्रसंबंधवान्पक्षः त्रयोदशदिनः पक्ष इत्यनुगतं लक्षणं क्रियते। अतो नात्राऽव्याप्तिरित्यस्त्यतिदोषवत्ता । यत्र चतुर्दशदिनात्मकः पक्ष इति प्रसिद्धिस्तत्र पंचदशतिथीनां त्रयोदशाहोरात्रसंबंधात्पक्षस्य त्रयोदशदिनात्मकता स्यात्सा मा भूदिति तिथिद्वयक्षयवानित्युक्तम् । अतः प्रतिपत्तिथेश्चतुर्दशीपंचदश्योरन्यतरतिथेश्च युगपत्क्षये त्रयोदशदिनात्मकपक्षत्वं नास्त्येवेति सिद्धांतः । अत एव भीष्मपर्वणि कुरुपांडवसैन्यक्षयनिमित्तभूतमुत्पातमाह दुर्योधनं प्रति भीष्मः-'चतुर्दशी पंचदशी भूतपूर्वा च षोडशीम् । इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम् ॥' इति । अस्यार्थः-पूर्व हि पंचांगगणनया प्रतिपदमारभ्यामावस्यां तिथिं चतुर्दशी चतुर्दशाहोरात्रे निष्पनां भूतपूर्वा पूर्व
१ प्रतिपत् शनौ घ. १ द्वि. श. घ. ५८ तृ. र. घ. ५६ च. सो. घ. ५२ पं. मं. ४७ ष. बु. ४२ स. गु. ३६ अ. शु. ३१ न. श. २५ द. र. १९ ए. सो. १४ द्वा. मं. ९ त्र. बु. ५ च. गु. १ पूर्णिमा गुरु. घ. ५८ ।।