________________
विश्वघस्रपक्षः] शुभाशुभप्रकरणम् । व्यपदेशः सोऽल्पदोष इति । एवं गुरोर्बाल्यवार्धकदिनानामपि बहुत्वाल्पत्वयोरपि व्यवस्था ध्येया। तथा हि-यदाऽस्तोदयाभ्यां प्राक् पश्चाच्च वार्धक बाल्यं च पक्षमभिहितं तदा पक्षांतिमदिनपंचकमल्पदोषदम् । यदा तु दशदिनानीति पक्षस्तदा तदंतिम दिनत्रयं मध्यमदोषम् । यदा तु सप्तदिनानीति पक्षस्तदा तु महादोष एव । एवं धीमद्भिरन्यत्रापि व्यवस्था विरोधे सति महादोपाल्पदोषजनिकावश्यकानावश्यकविषयिणी ध्येयेत्यलमतिप्रसंगेन ॥ ॥ अथ केचित्-विश्वघोऽपि पक्षे त्रयोदशदिने पक्षे यस्मिन् पक्षे तिथिद्वयहासः, स त्रयोदशदिनात्मकः पक्षोऽतिनिंद्यः । तदुक्तं ज्योतिर्निबंधे-'पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः । पक्षे विनष्टे सकलं विनष्टमित्याहुराचार्यवराः समस्ताः ॥' इति । तथा-'त्रयोदशदिने पक्षे तदा संहरते जगत् । अपि वर्षसहस्रेण कालयोगः प्रकीर्तितः॥' इति । एवंविधे काले सर्वं गुर्वाद्यस्तोक्तं शुभकर्म वयं प्रोचुः । तदुक्तं व्यवहारचंडेश्वरे-'त्रयोदशदिने पक्षे विवाहादि न कारयेत् । गर्गादिमुनयः प्राहुः कृते मृत्युस्तदा भवेत् ॥' इति । विवाहे दंपत्योश्चौलोपनयनादौ च शिशोर्मत्युरित्यवधातव्यम् , संस्कार्यतया प्राधान्यात् । ज्योतिर्निबंधेऽपि-'उपनयनं परिणयनं वेश्मारंभादिकर्माणि । यात्रां द्विक्षयपक्षे कुर्यान्न जिजीविषुः पुरुषः ॥' इति । अथ प्रसंगात्रयोदशदिनात्मकपक्षः कथं संभवति, कथं च न संभवतीति विचारः प्रस्तूयते । कस्मिश्चिच्छककाले कस्मिंश्चित्पक्षे प्रतिपत्सोमवासरे घटिकैका दशपलाधिका १।१०, ततो द्वितीया क्षयोन्मुखत्वात्पक्षस्य सोमवार एवांतर्हिता, अत एवाऽवमाख्या जाता घट्यः ५७ पलानि ६, ततः पुनरपचयक्रमेण तिथीनां चतुर्दश्यपि क्षयं गताऽवमाख्या शुक्रवार एव । ततः शनिवारे पूर्णिमा क्षयोन्मुखी चतुर्दशीतुल्या वा; एतादृशः पक्षस्त्रयोदशदिनात्मकः संभवति । यद्यपि 'पक्षपरिग्रहे' इत्यस्माद्धातोः पचाद्यचि पक्षशब्दो निष्पन्नो नानार्थश्चास्ति तथापि ज्योतिःशास्त्रे प्रतिपदाद्यक्षणमारभ्य पंचदश्यंतिमक्षणपर्यंत पंचदशतिथ्यात्मके काले रूढः शिष्टपरिगृहीतत्वाद्गृह्यते । दिनशब्दोऽप्यत्र त्रयोदशपदसमभिव्याहारादहोरात्रवाचकः 'दशाहं शावमाशौचं सपिंडेषु विधीयते' इत्यादावहःशब्दवत् । तत्र दिवसस्तु 'यत्कृच्छ्रसूतकचिकित्सितवासरायं तत्सावनाच घटिकादिकमार्लमानात्' इति भास्करोक्तेःसावन एवात्र ग्राह्यः । स च सूर्योदयमारभ्यापरसूर्योदयं यावत् तावत्कालो रविवाराद्यपरपर्यायः सकललोकप्रसिद्धो गृह्यते । तत्र 'त्रयोदशदिने पक्षे नूनं संहरते जगत्' इति वचनादेतादृशस्य त्रयोदशदिनात्मकस्य पक्षस्य दोषवत्ता मर्यते, कथमस्य पक्षस्य त्रयोदशदिनात्मकत्वम् ? उच्यते, त्रयोदशसंख्याकानि दिनानि यस्मिन्स त्रयोदशदिनस्तादृशे पक्ष इति व्युत्पत्त्या पक्षस्यान्यपदार्थकत्वात्तस्य पंचदशतिथ्यात्मकस्य त्रयोदशाहोरात्रसंबंधोऽभिहितो भवति । प्रस्तुतोदाहरणे तावत्प्रतिपदंतिमघटीसंबंधः प्रातःकाले सोमबारस्य जातः । ततो द्वितीयादितिथिसंबंधः सोमवारमारभ्यैव जातः । ततः क्रमेण पंचदश्याः शनिवारसंबंधोऽभूदिति पक्षस्य