________________
४२
मुहूर्तचिंतामणिः। [शुभे गुर्वादित्यवज्यविचारः जीवे तथाऽतिचारगते । गोचरबलं प्रधानं लग्ने च पराशरः प्राह ॥' इति । विवाहे एव कर्तव्येऽयमपवाद इति केचित् ; न तु यज्ञोपवीतादौ । लग्ने च पराशरः प्राहेति सामान्योक्तेः सर्वस्यापि कर्मणोऽपवाद इत्यन्ये । विशेषमाह लल्ल:-'यद्यप्यनुपचयस्थो जीवः कन्यातिकालमावहति । गुणवद्वरोपलब्धौ तथापि पाणिग्रहः कार्यः ॥' इति । अथ केचित्-गुर्वादित्ये गुरुसहिते आदित्ये सूर्ये । एकराशिगतौ गुरुसूर्याविति यावत् । स गुर्वादित्यस्तस्मिन्नपि सर्वमस्तोतं शुभकर्म वय॑म् । यदाह शौनकः-'एकराशिगतौ सूर्यजीवौ स्यातां यदा पुनः । व्रतबंधविवाहादि शुभकर्माखिलं त्यजेत् ॥' इति । यत्तु गुरुवचनम्-'गुरुक्षेत्रगतो भानुर्भानुक्षेत्रगतो गुरुः । गुर्वादित्यः स विज्ञेयो गर्हितः सर्वकर्मसु ॥' इत्याहुः, तदविचारितरमणीयम् । तथा हि-गुरुक्षेत्रे धनुर्मीनौ तत्र भानुः सूर्यो गुर्वादित्यस्तदसत् । धनुरर्कस्य दक्षिणायनत्वादेव निषेधसिद्धेः। मीनार्कस्य तु यज्ञोपवीतव्यतिरिक्तकार्यमात्रनिषेधसिद्धेः । तथा भानुक्षेत्रं सिंहस्तत्र गतो गुरुर्गुादित्य इति चेन्न । तत्र सिंहस्थगुरुत्वादेव निषेधसिद्धेः । अथ गणितवशेन यस्मिन्नेव गुरुक्षेत्रे भानुस्तस्मिन्नेव राशौ गुरुः स गुर्वादित्य इति । तन्न । संभवत्येकवाक्यताकरणे मिसवाक्यताकरणस्य वैयापत्तेः । ननु गुरोर्बाल्यवृद्धत्वास्तमयानां पृथनिषेधोऽनर्थकः, गुर्वादित्यनिषेधेनैव सिद्धत्वादिति चेत्-मैवं वोचः । राश्यादौ सूर्यः तदाशेरेवांतेऽष्टाविंशत्यंशे गुरुः तत्राष्टाविंशत्यंशानां व्यवधानात्तावद्गुरोरस्ताभावः। कालांशाश्व गुरोरेकादश ११ तदंतरे ह्यस्तमयत्वोक्तेः सप्तदशांशांतरितत्वाच्च वार्धकमपि नास्ति । यतो बाल्यं वार्धकं च परमं पक्ष १५ मानं नारदादिभिरुक्तं, तत्र दिनद्वयमधिकमवशिष्यते । येषां तु दश वा सप्त वा दिनानि बाल्यं वार्धकं चेति पक्षस्तेषामपि सप्त वा दश वा दिनानि बाल्यवार्धकरहितान्यवशिष्यते। तत्र गुर्वादित्यप्रयुक्तोऽपि दोषो यथा स्यादिति वचनारंभः । एवं बाल्येऽपि द्रष्टव्यम् । नन्वेवं गुर्वादित्य एव तर्हि वक्तव्यो गुरोर्बाल्यवार्धकास्तानां पार्थक्येन दोषाभिधानमनर्थकमिति चेन्न । यदा यत्र राशौ सूर्यस्ततः प्राग्रांशी गुरोरुदयस्तत्र बाल्यदोषः सावकाशः । यदोत्तरराशौ गुरुस्तदा वार्धकदोषः सावकाशः । बढ्शांतरत्वादस्तमयसंभावनापि नास्ति । तत्र गुर्वादित्यदोषेण बाल्यवार्धकास्तमयदोषाणां कथं निरासः कर्तुं शक्यः ? नहि भिन्नराशिस्थयोरपि गुर्वादित्ययोर्गुदित्यदोषाभिधानं कैश्चिदुक्तम् । तस्मात्प्रागुक्तविषय एव गुर्वादित्यदोषः। यदा त्वेकराशिस्थितत्वं तदा यदि बाल्यवार्धकास्तमयदोषाणां संभवस्तदा दोषस्याधिक्यन्यूनतातरतमभावो ध्येयः । तथा हि-बृहस्पतेः खलु पंचावस्थाः संभवंति । पूर्वं गुर्वादित्यसंज्ञा, साऽल्पदोषा । ततो यथा यथा रविसामीप्यं तथा तथा क्षीणताधिक्याद्वार्धकव्यपदेशो गुर्वादित्यव्यपदेशाहृष्टफलः । ततः सूर्यातिसान्निध्येनास्तंगतत्वेऽस्तमयाख्यो व्यपदेशः सोऽत्यंतं दुष्टफलः । ततः पुनरपि कालांशातिक्रमेण रविविप्रकर्षादुदये सति बालत्वव्यपदेशः प्राक्फलात् किंचिन्यूनदोषकरः । ततः पुनरपि राश्यते गुर्वादित्य