________________
गुर्वतिचारेऽपवादः] शुभाशुभप्रकरणम् । दीक्षाविवाहयात्रादि वधूप्रवेशः। तडागकूपत्रिदशप्रतिष्ठा बृहस्पती सिंहगते न कुर्यात् ॥' इति । देवीपुराणेऽपि-'सिंहसंस्थे गुरौ यत्नात्सरिंभान्विवर्जयेत् । प्रारब्धं च न सिध्येत महाभयकरं भवेत् ॥ पुत्रभ्रातृकलत्राणि हन्याच्छीघ्रं न संशयः । कारको व्रजते नाशं संतानं म्रियतेऽचिरात् ॥ देवारामतडागाश्च प्रपोद्यानगृहाणि च । विवाहयज्ञोपनयचूडादि च न सिध्यति ॥ यथा सिंहस्थितो जीवस्तथैव मकरस्थितः ॥' इति । त्रिस्थलीसेतो-'गुर्वादित्ये गुरौ सिंहे शुक्रे वाऽस्तमुपागते । त्यजेद्यानं महादानं व्रतं देवविलोकनम् ॥' इति । लल्लोऽपि-'नीचस्थे वक्रसंस्थेऽप्यतिचरणगते बालवृद्धऽस्तगे वा संन्यासो देवयात्रा व्रतनियमविधिः कर्णवेधस्तु दीक्षा । मौंजीबंधोंऽगनानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा वाः सद्भिः प्रयत्नात्रिदशपतिगुरौ सिंहराशिस्थिते वा ॥' इति । अयमपि निषेधो नियतकालविहितानां न भवति । उक्तं च शाीये-'सीमंतजातकादीनि प्राशनांतानि यानि वै । कर्तव्यानि न दोषोऽस्ति पंचाननगते गुरौ ॥' इति । उपलक्षणमेतत्-एवं मकरस्थेऽपि कार्याणि शुभानि । क्वचिदपूर्वतीर्थयात्रायां मौढ्यादिदोषाभावोऽभिहितः । त्रिस्थलीसेतो-'गोदावयां गयायां च श्रीशैले ग्रहणद्वये । सुरासुरगुरूणां च मौढ्यदोषो न विद्यते ॥' वायपुराणे-'गयायां सर्वकालेषु पिंडं दद्याद्विधानतः । अधिमासे जन्मदिने ह्यस्ते च गुरुशुक्रयोः ॥ न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पती ॥' इति । अत्र श्राद्धस्य यात्रापूर्वकत्वाद्यायात्रापि न निषिद्धति ज्योतिर्निबंधे व्याख्यातम् । गुर्वाद्यस्तस्योपलक्षणत्वात्सिंहस्थगुरावपि गोदावरीयात्रा न निषिद्धेत्याहुः । अन्यच्च-'अधिमासे सिंहगुरावस्ते च गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना ॥' इति । अत्र 'अधिमासे च जन्मक्ष-' इति पठंति, तत्र यात्रायां जन्मनक्षत्रस्यातिनिषिद्धत्वागोदावरीगयायात्रयोरपवादो युक्त एव । तथा ग्रहणार्धोदयकपिलाषष्ठीसंक्रांत्युद्देशनापूर्वतीर्थयात्रायां कर्तव्यायां शुक्रास्तादिमहादोषो नास्तीत्युक्तं त्रिस्थलीसेतौ लल्लेन-'उपप्लवे शीतलभानुभान्वोर|दये वा कपिलाख्यषष्ठ्याम् । सुरासुरेज्यास्तमयेऽपि तीर्थयात्राविधिः संक्रमणेऽपि शस्तः ॥' इत्यलमियता ॥ अथ गुर्वाद्यस्ते यद्वय॑मुक्तं तद्वक्रगे गुरावथवाऽतिचारगे गुरौ वर्ण्यम् । यदाह वात्स्यः-'यात्रोद्वाही प्रतिष्टां च गृहचूडाव्रतादिकम् । वर्जयेद्यनतश्चैव जीवे वक्रातिचारगे ॥ कीर्तिभंगः प्रतिष्ठायां चौरभीतिस्तथाध्वनि । तथोद्वाहे भवेन्मृत्युव्रते हानिर्भयं गृहे ॥' इति । क्वचिदस्यापवादोऽभिहितः राजमातडे-'वक्रातिचारगे जीवे वर्जयेत्तदनंतरम् । व्रतोद्वाहादिचूडायामष्टाविंशतिवासरान् ॥' इति । मुक्तावल्यां त्वतिचारस्यैवापवादः-'अतिचारे सुरपूज्यो भवनाद्भवनान्तरं यदा याति । अष्टाविंशतिदिवसान्विवर्जयेत्परिणये प्रयत्न ॥' इति । परिणय इत्युपलक्षणम् । अस्याप्यपवादो दीपिकायां-'त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयातः । यदा तदा प्राह शुभं विलग्नं हिताय पाणिग्रहणं वसिष्ठः ॥' इति । अत एव लल्लः-'प्रतिषिद्धो नोद्वाहो वक्रिणि