________________
मुहूर्तचिंतामणिः । [ सिंहस्थगुर्वादिदोषाः
बृहस्पती अपि - 'अन्याधानं प्रतिष्ठां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥ मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥' मरीचिः'गृहप्रवेशगोदानस्थानाश्रममहोत्सवम् । न कुर्यान्मलमासे तु संसर्पेऽहस्पतौ तथा ॥' इति । वसिष्ठः - 'वापीकूपतडागादिप्रतिष्ठां यज्ञकर्म च । न कुर्यान्मलमासे तु संसर्पाहस्पतौ तथा ॥' इति । यदा क्षयमासो भवति तदा पूर्वोत्तरावधिमासौ भवतः । तत्र पूर्वः संसर्पः । द्वितीयः - अंहस्पतिः । एतान्यधिकमासक्षयमासवर्ज्यानि गुरुशुक्रयोरस्तादावपि वर्ज्यानि । यदाह वृद्धगार्ग्यः - 'बाले वा यदि वा वृद्धे शुक्रे वाऽस्तंगते गुरौ । मलमास इवैतानि वर्जयेदेवदर्शनम् ॥' इति । अत्र देवदर्शनमपूर्वं विवक्षितम् । यदाह गर्ग : - 'अपूर्वदेवतां दृष्ट्वा शुचः स्युर्नष्टभार्गवे । मलमासेष्वनावृत्ततीर्थयात्रां परित्यजेत् ॥' इति । अनावृत्ततीर्थयात्राम् = अपूर्वतीर्थयात्राम् । दीपिकायां- 'नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजश निदिवसे जन्मतारासु चाथ । नाडीनक्षत्रहीने सुरगुरुरजनीनाथताराविशुद्धौ प्रातः कार्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने ॥' इति । गुरुसहितरवौ = गुर्वादित्ये इत्यर्थः । इदं सिंहस्थितमकरस्थितास्तमितगुरूणामुपलक्षणम् । उक्तं च व्यवहारोच्चये'सिंहस्थे मकरस्थे च जीवे चास्तमिते तथा । मलमासे न कर्तव्या परीक्षा जयकांक्षिणा ॥' इति । मलमासग्रहणं क्षयमासस्याप्युपलक्षणम् । नाडीनक्षत्राणि=वैनाशिकनक्षत्राणि । परीक्षा = दिव्यम् । अयमत्र तात्पर्यार्थः - अनियतकालविहितानि चूडाकरणवाप्यारामादिशुभकृत्यानि गुर्वादेरस्तादिषु सर्वथा न कार्याणि । यानि तु नियतकालानि सीमंतनामकरणादीनि तानि गुर्वादेरस्तादिसत्त्वेऽपि स्वोक्तकाल एव भवंति । 'चतुर्थे गर्भमासे स्यात्सीमंतोन्नयनक्रिया । षष्ठेऽष्टमे वा कुर्वीत सूत्रांतरविधानतः ॥ ' इति शौनकादिमुनिवचनेभ्यः कालस्यापि नियामकत्वावगतेः । अत एवाह बृहस्पतिः - 'मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः । न दोषकृन्मलो मासो गुर्वादित्यादिकं तथा ॥' इति । यमोऽपि - ' चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ॥' इति । अन्यत्रापि - 'सीमंतजातकादीनि प्राशनांतानि यानि वै । न दोषो मलमासस्य मौढ्यस्य गुरुशुक्रयोः ॥' इति । एवं सति प्रतिबन्धवशादतिक्रांतकालेषु जातकर्मादिषु सत्सु गौणकाले कार्याणि । तद्वशेन सदसन्मुहूर्तोपलब्धौ बहुदिवसगणैः सन्मुहूर्तोपलब्धिरेवोचिता, गौणकालस्य तुल्यत्वात् । उक्तं च वसिष्टेन - 'अतीतकालान्यखिलानि तानि कार्याणि सौम्यायनगे दिनेशे । सिते गुरौ चाप्यथ दृश्यमाने तदुक्तपंचांगदिनेऽप्यखण्डे ॥' इति । अत एवोक्तं अतिपन्नशिशुसंस्कारानिति ॥ ४६ ॥ ४७ ॥ अथ सिंहस्थगुर्वादिदोषान् शालिन्याह
J
४०
अस्ते वर्ज्यं सिंहस्थजीवे वर्ज्यं केचिद्वकगे चातिचारे । गुर्वादित्ये विश्वघस्रेऽपि पक्षे प्रोचुस्तद्वद्दतरत्नादिभूषाम् ॥४८॥ अस्ते वर्ज्यमिति ॥ यदस्ते गुर्वादेरस्ते वर्ज्यमुक्तं तत् सिंहनक्रस्थजीवे सिंहस्थगुरौ मकरस्थगुरौ च वर्ज्यं निषिद्धम् । यदाह वराहः - ' उद्यानचूडाव्रतबंध