________________
अधिमासक्षयमासवानि] शुभाशुभप्रकरणम् । पुष्करिणी, कूपः प्रसिद्धः, भवनं गृहं; एतेषामारंभप्रतिष्ठे-आरंभः निर्माणं, प्रतिष्ठा उत्सर्गः । तत्र गृहप्रतिष्ठा गृहप्रवेशो ज्ञेयः। व्रतारंभोत्सौं-व्रतानां अनंतशिवरात्रिव्रतादीनां आरंभः, उत्सर्गः अनंतव्रतादीनामुद्यापनं, महादानानिषोडशमहादानानि, सोमः सोमयागः, अष्टका अष्टकाश्राद्धं, गोदानं केशांतसंज्ञं कर्म, आग्रयणं नवान्नेष्टिः, प्रपा-जलशाला, 'प्रपा पानीयशालिका' इत्यभिधानात् । महाराष्ट्राः 'पाणपोई' इति वदंति। 'पवसरा' इति कान्यकुब्जाः । प्रथमकोपाकर्म प्रथमारभ्यमाणं श्रावणीकर्म, वेदव्रतं महानाच्यादित्रयं महानाम्नीव्रतं, उपनिषद्रतं, महाव्रतं च; नीलोद्वाहः नीलशब्दवाच्यः काम्यो वृषोत्सर्गः, नत्वेकादशाहे क्रियमाणः; तस्य तदैव विहितत्वान्मुहूर्तविचारानुन्मेषः । अतिपन्नशिशुसंस्कारा:-अतिपन्ना अतिक्रांता जातकर्मनामकर्मादयः शिशूनां संस्काराः, दीक्षा मन्त्रग्रहणादिका, मुण्डनं-चौलं, अपूर्व देवे. क्षणं तीर्थेक्षणं च,अग्निपरिग्रहः अग्निहोत्रमन्याधान,चातुर्मास्यं चातुर्मास्याख्यो यागः, समावृतिः समावर्तनं मौंजीमोक्षः, श्रवणयोर्वेधः कर्णवेधः, परीक्षा तप्तमाषादिरूपा, दिव्यमिति यावत् । अन्यानि कर्माणि नामतः स्पष्टानि । एतानि सर्वाणि कर्माणि त्यजेन्न कुर्यात् । इज्यसितयोवृहस्पतिशुक्रयोवृद्धत्वे अस्तत्वे शिशुत्वे बाल्ये च तथा न्यूनाधिभासे क्षयमासे अधिकमासे च न कुर्यात् । अयं च निषेधः प्रथमोपक्रांतकृत्येषु नतु नित्यवदारब्धवार्षिकयात्रादौ । अत्र मूलवचनानि लिख्यते । तत्र शुक्रास्तादिषु ज्योतिःसारसागरे ऋक्षोच्चयः–'वापीकूपतडागयागगमनं क्षौरं प्रतिष्ठा व्रतं विद्या मंदिरकर्णवेधनमहादानं वनं सेवनम् । तीर्थस्नानविवाहदेवभवनं मन्त्रादि देवेक्षणं दूरेणैव जिजीविपुः परिहरेदस्तंगते भार्गवे ॥ बाले शुक्रे वृद्ध जीवे वृद्धे शुक्र जीवे बाले । जीवे सिंहे सिंहादित्ये जीवादित्ये नष्टे जीवे ॥ तथा मलिम्लुचे मासि सुराचार्य तथाऽस्तगे। वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत्॥'इति। वनम् आरामादि । सेवनं-राजादीनाम् । नष्टे जीवे नष्टबले नीचस्थिते गुरावित्यर्थः।लल्ल:--'उपनयनं गोदानं परिणयनगृहप्रवेशगमनानि । अस्तमितेषु न कुर्यात्सुरगुरुभृगुपुत्रचंद्रेषु ॥' इति । शातातपः-'अस्तंगते गुरौ शुक्रे बाले वृद्ध मलिम्लुचे । उद्यापनमुपारंभं व्रतानां नैव कारयेत् ॥' अस्तमयादिफलमाह बादरायणः-'गुरोरस्ते पति हन्याच्छुक्रास्ते चैव कन्यकाम् । चंद्रे नष्टे उभौ हन्यात्तस्मादस्तं विवर्जयेत् ॥' इति । विवाह इति शेषः। 'बालभावे स्त्रियं हन्यादृद्धभावे नरं तथा । तस्माद्वाले च वृद्धे च विवाह नैव कारयेत् ॥' उपलक्षणमेतत्-एवं व्रतबंधादिष्वपि कर्तुमरणं ज्ञेयम् । 'एकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि विनियुज्यते' इति न्यायात् । उक्तं च शाङ्गीयविवाहपटले-'विवाहो व्रतबंधो वा यात्रा वा गृहकर्म च । गुरावस्तमिते शुक्रे ध्रुवं मृत्यु विनिर्दिशेत् ॥' इति । अथाधिमासक्षयमासवानि गृह्यपरिशिष्टे-'सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । तथैवाग्रयणाधानचातुर्मास्यादिकान्यपि ॥ महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् । स्पष्टमासविशेषाख्यविहितं वर्जयेन्मले ॥' इति । गर्ग