________________
मुहूर्तचिंतामणिः । [कालाशुद्धौ वानि द्विविधाया अपि भद्राया दोषवत्त्वोक्तेः पूर्वोक्तपरिहाराभिधानमयुक्तम् । उच्यते-इदमेव क्रमायातेति वचनं ज्ञापकमुक्तार्थस्य । अन्यथा सामान्यतो भद्रा दुष्टेत्युक्ते द्विविधभद्राया दोषवत्त्वसिद्धेरनर्थकमिदं स्यात् । तस्माच्छुभकार्याणां भद्रारूपदुष्टदिनव्यतिरिक्तकालप्रतीक्षायोग्यत्वे तदैव कार्य, न दुष्टदिने । 'अबाधेनोपपत्तौ बाधो न न्याय्यः' इति न्यायाद्वचनस्य निषेध एवं तात्पर्याच्च । अवश्यकर्तव्यस्य तु शुभकर्मणः कालांतरप्रतीक्षामसहमानस्यैवमादिपरिहारमाश्रित्य दुष्टदिने कृतिरुचितैव । 'विष्टिरंगारकश्चैव-' इत्यपि परिहार एतत्पर एवेत्यलं पल्लवितेन ॥ ४४ ॥ अथ भद्रानिवासं तत्फलं चानुष्टुभाह
कुंभकर्कद्वये मयेऽजे स्वर्गेऽजात्रयेलिगे।
स्त्रीधनुर्जूकनकेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥ कुंमेति ॥ अब्जे चंद्रमसि कुंभद्वये कुंभमीनस्थ कर्कद्वये कर्कसिंहराशिस्थिते सति भद्रा मढं मनुष्यलोके तिष्ठति । अथ मेषादित्रये मेषवृषमिथुनस्थितेऽलिगे वृश्चिकस्थिते चंद्रे स्वर्गे भद्रा तिष्ठति । कन्याधनुस्तुलामकरराशिस्थितेऽधः पाताललोके भद्रा तिष्ठति । अथ यत्र भद्रा तत्रैव मर्त्यस्वर्गपातालेषु फलं स्वोक्तशुभाशुभफलं ददातीत्यपवादद्वारा प्रयोजनमुक्तं भवति । उक्तं च-'मेषोक्षकौZमिथुने घटसिंहमीनकर्केषु चापमृगतौलिसुतासु चंद्रे । स्वर्मय॑नागनगरीः क्रमशः प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे ॥' इति । भूपालवल्लभे-'कन्यातुलामकरधन्विषु नागलोके मेषालिवैणिकवृषेषु सुरालये स्यात् । पाठीनसिंहघटकर्कटकेषु मखें चंद्रे वदंति मुनयस्त्रिविधां हि विष्टिम् ॥' इति । पाठीनः मीनः ॥ ४५ ॥
एवं महता ग्रंथसंदर्भण पंचांगदूषणान्युक्तानि, अधुना कालाशुद्धौ निषेध्यवस्तूनि शार्दूलविक्रीडिताभ्यामाहवाप्यारामतडागकूपभवनारंभप्रतिष्ठे व्रता
रंभोत्सर्गवधूप्रवेशनमहादानानि सोमाष्टके । गोदानाग्रयणप्रपाप्रथमकोपाकर्मवेदव्रतं
नीलोद्वाहमथातिपन्नशिशुसंस्कारान्सुरस्थापनम् ॥४६॥ दीक्षामौजिविवाहमुंडनमपूर्व देवतीर्थेक्षणं __ संन्यासाग्निपरिग्रहौ नृपतिसंदर्शाभिषेकौ गमम् । चातुर्मास्यसमावृती श्रवणयोर्वेधं परीक्षां त्यजे
द्वद्धत्वास्तशिशुत्व इज्यसितयोन्यूनाधिमासे तथा॥४७॥ वाप्यारामेति ॥ दीक्षेति ॥ वापी दीर्घिका, आरामः उपवनं, तडागः= १ वैणिकं मिथुनं, तत्स्वरूपे ‘सवीण' मिति वराहोक्तेः ।