________________
भद्रादोषविचारः] शुभाशुभप्रकरणम् १ । कर्म विष्टयां तु सिध्यति ॥ न कुर्यान्मंगलं विष्टयां जीवितार्थी कदाचन । कुर्वन्नज्ञस्तदा क्षिप्रं तत्सर्व नाशतां व्रजेत् ॥' इति । तत्र अंगविभागः फलंच कश्यपसंहितायाम्-'मुखे पंच गले त्वेका वक्षस्येकादश स्मृताः । नाभौ चतस्रः षट् कट्यां तिस्रः पुच्छे तु नाडिकाः ॥ कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता । कट्यामुन्मत्तता नाभौ च्युतिः पुच्छे ध्रुवो जयः ॥' इति । अयं च भद्रांगविभागो नाडीनां त्रिंशतोक्तः । त्रिंशतो न्यूनाधिकत्वे तु त्रैराशिकेन मुखादीनामंगानां विभागज्ञानम् । यथा-यदि नाडीत्रिंशता इदमुक्तमंगपरिमाणं तदेष्टपरिमाणेन किमिति त्रैराशिकम् । एवं सति उक्तांगपरिमाणं भद्राभोगमितघटीभिः संगुण्य त्रिंशता भाज्यं, लब्धं समोऽगविभागः। त्रैराशिकस्वरूपं लीलावत्यामुक्तम्-'प्रमाणमिच्छा च समानजाती आयंतयोस्तत्फलमन्यजाति । मध्ये तदिच्छाहतमाद्यहृत्स्यादिच्छाफलं व्यस्तविधिर्विलोमे ॥' इति । तत्र मुखादिकालो रत्नमालायाम्-'जलशिखिशशिरक्षःशर्वकीनाशवायुत्रिदशपतिककुप्सु प्रोक्तमास्यं हि विष्टेः । नियतमृषिभिराशासंख्ययामक्रमेण स्फुटमिह परिहार्य मंगलेष्वेतदेव॥' इति। जलं वरुणः, कीनाशः यमः । शुक्लचतुर्थ्या उत्तरार्धे पश्चिमदिशि भद्रामुखं तच्चाशासंख्ययामक्रमेण पंचमे प्रहरे भवति । अर्थादेव भद्रायाः प्रहरचतुष्टयाधिकस्थितिभावादंते एव घटिकात्रयं पुच्छम् । ततोऽष्टम्यां द्वितीयप्रहरे तेन प्रकारेण आनेय्यां दिशि मुखम् । मुखाच्च प्राक् पुच्छमिति प्रथमप्रहरांत एव पुच्छं घटिकात्रयमित्येवं सर्वास्वपि भद्रातिथिप्ववगंतव्यम् । प्रयोजनमपि तत्रैव-'मनुवसुमुनितिथियुगदशशिवगुणसंख्यासु तिथिषु पूर्वस्याः । आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्वशुभा ॥' इति । तदेतदात्ययिककार्यसंभवे सति मुखदिक्संमुखयात्रानिषेधकमवधेयम् । ग्रंथांतरे अन्यदप्युक्तम्-'असिते सर्पिणी ज्ञेया सिते विष्टिस्तु वृश्चिकी। सर्पिण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥' इति । अथ परिहारमाह-तथेति । विष्टिस्तिथ्यपरार्धजा तिथ्युत्तरार्धे संभूता वासरे दिवसे यदि स्यात् तदा शुभकरी । तेनैव प्रकारेण तिथिपूर्वार्धजा भद्रा रात्रौ चेत्स्यात्तदा शुभा शुभकरी स्यात् । उक्तं च'रात्रिभद्रा यदाऽह्नि स्यादिवाभद्रा यदा निशि । न तत्र भद्रादोषः स्यात्सा भद्रा भद्रदायिनी ॥' इति । रात्रिभद्रा-तिथ्युत्तरार्धोद्भवा; दिवाभद्रा-तिथिपूर्वार्धोद्भवा । अमुमर्थ स्पष्टमाह गुरुः–'निशि पूर्वार्धजा विष्टिर्दिवा चापरतः शुभा । क्रमागता तु या विष्टिः सैव हालाहलोपमा ॥' इति । लल्लोऽपि-'दिवा परार्धजा विष्टिः पूर्वार्धात्था यदा निशि । तदा विष्टिः शुभायेति कमलासनभाषितम् ॥' ब्रह्मसिद्धान्तेऽपि-'दिवा परार्धजा विष्टिविष्टिरेव दिवानिशोः । सा त्याज्या त्वन्यथा विष्टिः सर्वकर्मशुभप्रदा ॥' इति । ननु यत्त नारदकश्यपादिभिरुक्तम्-'करणानि बवादीनि शुभसंज्ञानि षट् क्रमात् । क्रमायाताऽक्रमायाता विष्टिर्नेष्टा तु मंगले॥' इति । अत्र क्रमायाता=दिवारात्रिक्रमेणागता; अक्रमायाता=दिवाभट्टा रात्रौ, रात्रिभद्रा च दिवेत्यर्थः । एवं सति
४ मु० चि.