________________
३६
'मुहूर्तचिंतामणिः ।
यामेष्वंत्यघटीत्रयं शुभकरं पुच्छं तथा वासरे विष्टिस्तिथ्यपरार्धजा शुभकरी रात्रौ तु पूर्वार्धजा ॥ ४४ ॥
[ भद्राकृत्यम्
पंचेति ॥ चतुर्थ्यादितिथीनां क्रमतः पंचादिप्रहरेषु शराः पंच नाड्यः आदिमा विष्टेर्भद्राया आस्यं मुखं । यथा - चतुर्थ्याः पंचमप्रहरआदिभूताः पंच घट्यो भद्रामुखम् । एवमष्टम्या द्वितीयप्रहरे, एकादश्याः सप्तमप्रहरे, पौर्णमास्याश्चतुर्थप्रहरे, तृतीयाया अष्टमप्रहरे, सप्तम्यास्तृतीयप्रहरे, दशम्याः षष्ठप्रहरे, चतुर्दश्याः प्रथमप्रहरे भद्रामुखमित्यर्थः । तद्भद्राया मुखमसदशुभमित्यर्थः । अथ पुनश्चतुर्थ्यादितिथीनां क्रमेण गजादिप्रहरेषु अंत्यम्, अंते भवमंत्यं 'दिगादिभ्यो यत्' इति यत् । घटीत्रयं पुच्छं पुच्छसंज्ञं तच्छुभकरं समस्तकार्येष्वित्यर्थः । यथा - चतुर्थ्यां अष्टमप्रहरस्यांत्यघटीत्रयं भद्रापुच्छं, एवमष्टम्याः प्रथमप्रहरस्य, एकादश्याः षष्ठप्रहरस्य पूर्णिमायास्तृतीयप्रहरस्य तृतीयायाः सप्तमप्रहरस्य, सप्तम्या द्वितीयप्रहरस्य, दशम्याः पंचमप्रहरस्य चतुर्दश्याश्चतुर्थप्रहरस्यां - त्यघटीत्रयं भद्रापुच्छमित्यर्थः । यदाह गुरुः - 'भूतदस्त्रस्वरांभोधिवसुवह्नयंगरूपकाः । यामेष्वेषु क्रमादास्यं भवेत्तिथ्यर्धविष्टिषु ॥' इति । व्यवहारसमुच्चये – 'दशम्यामष्टम्यां प्रथमघटिकापंचकपरं हरिद्युः सप्तम्यां द्विदश१२ घटिकांते त्रिघटिकम् । तृतीया राकायां खयम २० घटिकाभ्यः परभवं शुभं विष्टेः पुच्छं शिवतिथिचतुर्थ्योस्तु विरमे ॥' इति । हरिद्युः = एकादशी । राका=पूर्णिमा । ननु भद्रा देवतेत्यभिधीयते, तस्याः पुच्छकथनात्तु पशुत्वसिद्धिर्द्दश्यते । देवता च कथं पशुर्भवितुमर्हति ? सत्यम् । दैत्येन्द्रैर्देवेषु पराजितेषु रुद्रस्य ज्वालामालाकुलनेत्रालोकितशरीराद्देवी भद्रासंज्ञा मुखपुच्छादिमत्युत्पन्ना सती दैत्याञ्जघान । यदुक्तं श्रीपतिना - 'दैत्येंद्रैः समरेsमरेषु विजितेष्वीशः क्रुधा दृष्टवान् स्वं कार्यं किल निर्गता खरमुखी लांगूलिनी च त्रिपात् । विष्टिः सप्तभुजा मृगेंद्रगलका क्षामोदरी प्रेतगा दैत्यघ्नी मुदितैः सुरैस्तु करणप्रांते नियुक्ता सदा ॥' इति । करणान्याह गर्ग :'बवं च बालवं चैव कौलवं तैतिलं गरम् । वणिजं विष्टिमित्याहुः करणानि चराणि तु ॥' इति । विष्टिः =भद्रा | 'अंते कृष्णचतुर्दश्याः शकुनिर्दर्शभागयोः । भवेच्चतुष्पदं नागं किंस्तुघ्नं प्रतिपद्दले ॥' इति । अतः 'तिथ्यर्धभागः करणम्' इत्युक्तेः प्रतिपत्पूर्वार्धे स्थिरकरणं किंस्तुघ्नं, ततो बवकरणं प्रतिपद्वितीयार्थे । बालवकौलवकरणे द्वितीयायाः पूर्वोत्तरार्धयोः, तैतिलगरकरणे तृतीयापूर्वोत्तरार्धयोः । चतुर्थीपूर्वार्धे वणिक्, उत्तरार्धे तु भद्रा । एवं पंचमीषष्ठी - सप्तमीषु बवबालवकौलवतैतिलगरवणिक्करणानि भवंति । ततोऽष्टम्या ह्यर्धे भद्रा भवति ॥ एवं पुनः पुनरावृत्तावुक्ततिथिषु भद्रा ज्ञेया । अत एवोक्तम्- 'शुक्ले पूर्वार्धेऽष्टमीपंचदश्योः' (श्लो० ४३) इत्यादि । एवं चतुर्दश्याः पूर्वार्धे भद्रा । उत्तरार्धादारभ्य शकुन्यादीनि स्थिरकरणानि चत्वारि । भद्राकृत्यमाह वसिष्ठः – ' वधबंधविषाम्यस्त्रच्छेदनोच्चाटनादि यत् । तुरंगमहिषोष्ट्रादि
"