________________
भद्राया मुखपुच्छविभागाः] शुभाशुभप्रकरणम् । इति तदमृतयोगस्यातिप्राशस्त्यसूचनार्थ, न तु भद्राव्यतीपातादिदोषापवादकम् , 'हंत्यमृताख्यो योग' इत्येकवाक्यताबलात् । अथ परे आचार्या लग्नशुद्ध्या समीचीनलग्नबलेन कुयोगानां मृत्युक्रकचादीनां नाशं वदंतीति शेषः । यदाह स एव-'यत्र लग्नं विना कर्म क्रियते शुभसंज्ञकम् । तत्र तेषामयोगानां प्रभावाजायते फलम् ॥' अथावश्यकशुभकृत्ये कालांतरप्रतीक्षाऽयोग्यतायां परिहारमाह-विष्टिपूर्व विष्टिर्भद्रा तत्पूर्वं तदादिव्यतीपातादिकं दिनाओंत्तरं मध्याह्नादनंतरं शस्तं प्राहुः। अर्थान्मध्याह्नं यावत्कालो निषिद्धः। 'विष्टिरंगारकश्चैव व्यतीपातश्च वैधतिः। प्रत्यरं जन्मनक्षत्रं मध्याह्नात्परतः शुभम् ॥' इति तेनैवोक्तत्वात् ॥ ४२ ॥ __ अथ भद्रा निषिद्वेति पूर्वमुक्तं तदधुना प्रस्तावात्तन्निषिद्धकालं शालिनीछंदसाहशुक्ले पूर्वार्धेऽष्टमीपंचदश्योभद्रैकादश्यां चतुर्थ्यां परार्धे । कृष्णेऽत्याधै स्यानृतीयादशम्योः पूर्व भागे सप्तमीशंभुतिथ्योः॥
शुक्ल इति ॥ शुक्लपक्षेऽष्टम्यां पूर्णिमायां च पूर्वार्धे भद्रा भवति । एकादश्यां चतुर्थ्यां चोत्तरार्धे भद्रा । अथ कृष्णे कृष्णपक्षे तृतीयायां दशम्यां चांत्याधं उत्तरार्धे भद्रा स्यात् । सप्तम्यां शंभुतिथौ चतुर्दश्यां च पूर्वभागे पूर्वार्धे भद्रा स्यात् । पूर्व इति 'पूर्वादिभ्यो नवभ्यो वा' इति स्मिनभावपक्षे रूपम् । अष्टम्यादीनां तिथीनां गतभोग्यघटिकायोगाध भद्राप्रमाणमिति यावत् । 'तिथेगतेप्येक्यदलं तन्मानं करणं भवेत्' इति वोपदेवोक्तेः । तिथ्यर्धभागं सर्वेषां करणानां प्रकल्पयेत्' इति सूर्यसिद्धांतोक्तेश्च । उक्तं च दीपिकायाम्-'तृतीयादशमीशेषे तत्पंचम्योस्तु पूर्वतः। कृष्णे विष्टिः सिते तद्वत्तासां परतिथिष्वपि ॥' इति । बृहस्पतिना तु स्पष्टमुक्तम्-'सिते चतुर्थीमंत्यार्धमष्टम्याद्यार्धमेव च । एकादश्यां परार्धे तु पूर्वार्धे पूर्णशीतगौ ॥ कृष्ण तृतीयांत्याधं हि सप्तम्याद्यार्धमेव च । दशम्यामुत्तरार्धं तु चतुर्दश्यर्धमादितः ।। विष्ट्याख्योऽयं महादोपः कथितोऽत्र समस्तगः । तदानीं कृतसत्कर्म का सह विनश्यति ॥' इति । पूर्णशीतगौ पूर्णिमायाम् । रत्नकोशे प्रत्येकं भद्रानामानि-'हंसी नंदिन्यपि च त्रिशिराः सुमुखी करालिकाश्चैव। वैष्णव्यतिरौद्रमुखी चतुर्मुखी विष्टयः क्रमशः ॥' चतुर्थ्यादितिथिसंबंधिभद्रानामाभिधानं नामसादृश्येन फलतारतम्यसूचनार्थम् । भद्रास्वरूपं रत्नमालायाम्-'उद्घद्धोनटतरपिंडिकाऽतिकृष्णा दंष्ट्रोग्रा पृथुहनुगंडदीर्घनासा । कार्यनी हुतवहलक्षमुद्गिरंती विश्वांतः पतति समंततोऽत्र विष्टिः ॥' इति ॥ ४३ ॥ ___ अथ चतुर्थ्यादितिथिपु भद्राया मुखपुच्छविभागादिकं शार्दूलविक्रीडितेनाह-- पंचयद्रिकृताप्टरामरसभूयामादिघट्यः शरा
विष्टेरास्यमसद्गजेंदुरसंरामाद्यश्विवाणाब्धिषु । १ तृतीयां दशमी चारभ्य पंचम्योः सप्तमीचतुर्दश्योरित्यर्थः । २ तद्वत्-परपूर्वभागे विष्टिर्भवतीत्यर्थः । ३ तासां=कृष्णपक्षीयतिथीनान् । ४ वैकृतिरौद्रमुखी इति पाठः