________________
३४
मुहूर्तचिंतामणिः। [नेष्टयोगविषयेऽपवादः तीरवर्तिदेशेषु; तथा त्रिपुष्कराख्ये देशे च होलिका फाल्गुनपौर्णमास्यामग्निदाहः, ततः प्राक् दिनाष्टकं विवाहादिशुभकृत्ये नेष्टं निषिद्धमित्यर्थः । अत्र तावद्धोलिकाष्टकनिषेधः शीघ्रबोधे-'शुक्लाष्टमी समारभ्य फाल्गुनस्य दिनाष्टकम् । पूर्णिमावधिकं त्याज्यं होलाष्टकमिदं शुभे ॥' इति । अस्यापवादोऽपि तत्रैव-'शुतुद्यां च विपाशायामैरावत्यां त्रिपुष्करे । होलाष्टकं विवाहादौ त्याज्यमन्यत्र शोभनम् ॥' इति ॥ ४० ॥ .
मृत्युक्रकचदग्धादीनिंदौ शस्ते शुभाञ्जगुः।
केचिद्यामोत्तरं चान्ये यात्रायामेव निंदितान् ॥ ४१ ॥ मृत्य्विति ॥ मृत्यवो मृत्युयोगा आनंदादिष्वष्टाविंशतियोगेषु 'दास्रादर्के' (लो०२५) इत्यादिना प्रागुक्ताः। क्रकचः 'षष्ट्यादितिथयो मंदाद्विलोमम्' (श्लो०६) इत्युक्तः । दग्धयोगः 'सूर्येशपंचाग्निरसाष्टनंदा' (लो०८) इत्युक्तः । आदिशब्देन विषयोगा हुताशनयोगाश्च गृह्यते । चंद्रे शस्ते समीचीने सति । समीचीनत्वं गोचरप्रकरणे वक्ष्यते । मृत्युक्रकचदग्धादीन् शुभाननिष्टफलमपास्य शुभफलदान् जगुरुचुः । यदाह राजमार्तण्ड:-'क्रकचो मृत्युयोगाख्यो दिनं दग्धं तथैव च । चंद्रे शुभे क्षयं यांति वृक्षा वज्रहता इव ॥' इति । केचिंदाचार्यो यामोत्तरं मृत्युक्रकचदग्धादीन् शुभाञ्जगुः । तथा च दीपिकायां राजमार्तण्ड:-'उत्पाते यमघंटे च काणे च क्रकचे तथा । तिथौ दग्धे च काले च प्राग्यामात्परतः शुभम् ॥' इति । अथान्ये आचार्या मृत्युक्रकचदग्धादीन् यात्रायामेव निंदिताञ्जगुः । विवाहादीनि तु प्रतिषेधाभावादवश्यं कार्याणि । यदाह लल्लः-'वारह्मतिथियोगेषु यात्रामेव विवर्जयेत् । विवाहादीनि कुर्वीत गर्गादीनामिदं वचः ॥' इति । वारह्मतिथियोगेषु नियेष्विति शेषः ॥ ११ ॥ अथ पुनरप्यपवादं भुजंगप्रयातेनाह
अयोगे सुयोगोऽपि चेत्स्यात्तदानी___मयोगं निहत्यैष सिद्धिं तनोति । परे लग्नशुध्या कुयोगादिनाशं
दिनार्धोत्तरं विष्टिपूर्व च शस्तम् ॥ ४२ ॥ अयोग इति ॥ अयोगे क्रकचादौ सति सुयोगः सिद्धियोगोऽपि चेत्स्या'त्तदा एष सिद्धियोगः अयोगं अयोगफलं निहत्य सिद्धिं कार्यसिद्धिं तनोति निष्पादयति । यदाह राजमार्तण्डः-'अयोगः सिद्धियोगश्च द्वावेतौ भवतो यदि। अयोगो हन्यते तत्र सिद्धियोगः प्रवर्तते ॥' इति । अन्यच्च-'हंत्यमृताख्यो योगः सर्वाण्यशुभानि लीलया नियतम् । न भवति पुनरिह शक्तो वैधतिविष्टिव्यतीपाते ॥' इति । यत्तु दीपिकाकारवचनम्-'यदि विष्टियंतीपातो दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥'