________________
शुभे होलिकाष्टकनिषेधः] शुभाशुभप्रकरणम् १ । सौम्ये धब्धिगजांकदिङ्मनुमिता जीवे द्विषभास्कराः शक्राख्यास्तिथयः कलाश्च भृगुजे वेदेषुतर्कग्रहाः ॥ ३८ ॥ दिग्भास्करामनुमिताश्च शनौ शशिद्वि
नागा दिशो भवदिवाकरसंमिताश्च । दुष्टक्षणः कुलिककंटककालवेलाः
स्युश्चाधयामयमघंटगताः कलांशाः ॥ ३९ ॥ सूर्य इति॥ दिगिति ॥रविवारे-षष्ठसप्तमाष्टमदशमचतुर्दशसंख्या मुहूर्ता निंद्याः। सोमवारे-चतुर्थषष्ठाष्टमनवमद्वादशत्रयोदशचतुर्दशमुहूर्ता निंद्याः । भौमे-द्वित्रिचतुःषददशसंख्या मुहूर्ता निंद्याः । बुधे-द्विचतुरष्टनवदशचतुर्दशसंख्या मुहूर्ता निंद्याः । गुरौ-द्विषदद्वादशचतुर्दशपंचदशषोडशसंख्या मुहूर्ता निंद्याः । शुक्र-चतुःपंचषदनवदशद्वादशचतुर्दशसंख्या मुहूर्ता निंद्याः । शनौएकद्विवसुदशैकादशद्वादशसंख्याका मुहूर्ता निंद्याः। एषु मुहूर्तेषु केषुचित् दुष्टक्षणो दुर्मुहूर्तो ज्ञेयः । केषुचित्कुलिककंटककालवेलाः स्युः। केषुचिदर्धयामयमघंटाः स्युः । तत्प्रमाणमाह-कलांशा इति । कलांशाः षोडशांशाः । दिनस्येति शेषः। यस्मिन्दिने कुलिकादिजिज्ञासा तद्दिने यद्दिनमानं तत्षोडशभिर्भाज्यं, यल्लब्धं घटीपलात्मकं तन्मुहूर्तपरिमाणं; तेषु मुहूर्तेषु यथासंभवं दुर्मुहर्तादयो दोषा ज्ञातव्याः । तथा हि-रवौ चतुर्दशसंख्यो मुहूर्तो दुर्मुहूर्तः, कुलिकश्च षष्ठः कंटकसंज्ञः सप्तमाष्टमावर्धयामाख्यौ । तत्राष्टमः कालवेलाख्यश्च, दशमो यमघण्टाख्यः । एवं सोमवारादिष्वपि बोद्धव्यम् । तत्र कुलिककंटककालवेलायमघंटज्ञानं पूर्वश्लोकेऽभ्यधायि। दुर्मुहूर्धियामान विवाहप्रकरणे (श्लो०१६) रवावर्यमा-' इत्यादिना वक्ष्यति। ननु दुर्मुहर्तकुलिकादेर्वाचनिकस्यार्थस्य 'सूर्ये षदस्वर-' (श्लो०३८) इत्यादिलघुप्रकारेणाभिधानात्पूर्व परस्ताच्च पुनग्रंथोक्तप्रकाराभिधानमयुक्तमिति प्रतिभाति । तथापि दृष्टांतार्थमिदमभिधानम् । तथा हि-ग्रन्थेषु दुर्मुहूर्तकुलिककण्टककालवेलार्धयामयमघंटानां श्लोकषट्केनाभिधानात् व्याख्यानगम्यार्थत्वाच्चेति गौरवम् । अत्र तु सर्वमप्यर्थं शब्दतः संक्षिप्य श्लोकद्वयेन व्याख्यानानपेक्षमभिधानमिति लाघवमिति दृष्टांतदर्शनद्वारा सर्वत्र लाघवकरणसूचनार्थं शिष्याणामत्र ग्रंथे पठनादरातिशयार्थं च पुनरुक्तिः ॥३८॥३९॥ अथ विवाहादिशुभकृत्ये होलिकाष्टकनिषेधमनुष्टुभाह
विपाशेरावतीतीरे शुतुद्याश्च त्रिपुष्करे ।
विवाहादिशुभे नेष्टं होलिकामाग्दिनाष्टकम् ॥ ४० ॥ विपाशेति ॥ विपाशा इरावती चैते नद्यौ पश्चिमदेशे प्रसिद्ध । एतयोनद्योस्तीरे तीरवर्तिदेशेषु, तथा शुतुद्रिनंदी, सापि तत्रैव प्रसिद्धा,-तस्या अपि