________________
३२
. मुहूर्तचिंतामणिः । [ दुर्मुहूर्ताख्या मुहूर्तदोषाः .. अथ कुलिककालवेलायमघंटकंटकदोषाननुष्टुभाह
कुलिका कालवेला च यमघंटश्च कंटकः ।
वाराविन्ने क्रमान्मंदे बुधे जीवे कुजे क्षणः ॥ ३७॥ - कुलिक इति ॥ वारात् वर्तमानवारात् मंदे शनैश्चरे गणिते सति योऽको भवेत्तस्मिन् द्विगुणे योऽकस्तत्संख्यः क्षणो मुहूर्तः कुलिको भवति । एवं वर्तमानवारात् बुधे जीवे कुजे गणिते ततो द्विगुणिते सति येऽकास्ते क्रमात् कालवेला-यमघंट-कंटक-संज्ञका दुष्टमुहूर्ताः स्युः । यथा-रवितः शनिः सप्तसंख्याकः, स द्विगुणश्चतुर्दश जाताः, अतस्तत्संख्याको मुहूर्तः कुलिकसंज्ञो रविवारे भवति । एवं रवावष्टमो मुहूर्तः कालवेला, तथा रवौ दशमो मुहूर्तो यमघंटः, तथा रवौ षष्ठो मुहूर्तः कंटकसंज्ञ इत्यर्थः । एवं सोमवारादावपि कुलिककालवेलायमघंटकंटकाः स्युरित्यर्थः । यदाह कश्यपः-शैलाक्षवेदा ७-५-४ स्तर्काधिनगाः ६-४-७ पंचाग्निबाहवः ५-३-२। वेदाक्षिबाणा ४-२-५ लोकैकेभा ३-१-८ स्त्वक्षिगिरिवह्नयः २-७-३ ॥ चन्द्रर्तुतर्काः १-६-६ कुलिकयमघंटार्धयामकाः । प्रहरार्धप्रमाणास्ते भानुवारादितः क्रमात् ॥' इति । अत्रार्धयामः संपूर्णस्त्याज्योऽन्वर्थत्वात् । कुलिकयमघंटयोस्तूत्तरार्ध त्याज्यम् । उक्तं च दैवज्ञमनोहरे-'अहनि निशि गजांशः स्वे दिनेशादिकानां भवति तु गुरुभौमज्ञार्किकालक्रमेण । प्रभवति यमघंटः कंटकः कालवेला कुलिक इति विरुद्धस्तत्परार्ध निषिद्धम् ॥' इति । गजांशः अर्धप्रहरः । एते मुहूर्तदोषा दिनषोडशांशत्वेन ज्ञेयाः । गजांश इत्युक्त्वा तत्परार्ध निषिद्धमित्युक्तेः । दोषफलमाह वसिष्ठः'निधनं प्रहरार्धे तु निःस्वत्वं यमघण्टके । कुलिके सर्वनाशः स्याद्रात्रावेते न दोषदाः ॥' इति । कंटक-कालवेलयोरन्वर्थत्वादत्र फलं नोक्तम् । 'रात्रावते न दोषदाः' इत्यस्यार्थवादो रत्नकोशे-'तमस्विनीगंधमुपेत्य वारदोषास्तथा शक्तिमनाप्नुवंतः । अंधं समासाद्य विलासिनीनां कटाक्षबाणा इव निष्फलाः स्युः ॥' इति । तथा च 'न वारदोषाः प्रभवंति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् । दिवा शशांकार्कजभूसुतानां सर्वत्र निंद्यो बुधवारदोषः' इति ज्योतिनिबंधकृदुक्तिः संगच्छते । अथ शुभकृत्यावश्यकत्वे देशभेदेन यमघंटकंटकादिदोषपरिहारमाह गर्ग:-'विंध्यस्योत्तरकूले तु यावदातुहिनाचलम् । यमघं(क)टकदोषोऽस्ति नान्यदेशेषु विद्यते ॥ मत्स्यांगमगधांधेषु यमघंटस्तु दोषकृत् । काश्मीरे कुलिकं दुष्टमर्धयामस्तु सर्वतः ॥' इति ॥ ३७॥
अथ सूर्यादिवारेषु शिष्याणां सद्य एव दोषज्ञानार्थ दुर्मुहूर्तादिनामकान् मुहूर्तदोषान् शार्दूलविक्रीडितवसंततिलकाभ्यामाहसूर्ये षट्स्वरनागदिमनुमिताश्चंद्रेऽब्धिषट्कुंजरां
कार्का विश्वपुरंदराः क्षितिसुते यन्यब्धितर्कादिशः।