________________
पंचांगशुद्धिः ]
शुभाशुभप्रकरणम् १ |
स्थितिकालानयनस्य वैयर्थ्यप्रसंग इति निष्कृष्टोऽर्थः । विष्कंभेति । विष्कंभवज्रयोगयोः प्रथमातिक्रमे कारणाभावादादिमं घटिकात्रयमेव वर्ज्यम् । तथा परि'घस्य परिघाख्ययोगस्य घटिकानामाद्यमर्थं त्रिंशद्वटिकात्मकं त्याज्यम् । शूले पंचादिमा घट्यो वर्ज्याः । गंडातिगंडयोगयोरादिमाः षड् नाड्यो वर्ज्याः । व्याघातयोगे नवादिमा नाड्यो वर्ज्याः । यदाह श्रीपतिः - 'परिघस्य चार्धम् । तिस्रस्तु योगे प्रथमे सवज्रे व्याघातसंज्ञे नव पंच शूले । गंडेऽतिगंडे च षडेव नाड्यः शुभेषु कार्येषु विवर्जनीयाः ॥' इति । ननु 'सवज्रे' इदं कस्य विशेषणं-प्रथमयोगस्य वा व्याघातयोगस्य वा ? भिन्नभिन्नघटिकानिर्देशादुभयोस्तद्विशेषणमयुक्तम् । अत्र ब्रूमः - प्रथमस्यैव विशेषणम्, वज्रयोगसहिते प्रथमयोगे विष्कंभयोगे तिस्रो नाड्यो वर्ज्या इत्यर्थः । किमत्र प्रमाणम् ? इति चेच्छृणु- कश्यपादिवाक्यस्वरसात् । यदाह कश्यपः - ' - 'विष्कंभवज्रयोस्तिस्रः षट् च गंडातिगंडयोः । व्याघाते नव शूले तु पंच नाड्यस्तु गर्हिताः ॥ ' इति । नारदोऽप्येवमेव । अनेन – विष्कंभादिघटीत्रयं च नवकं व्याघातवज्रोद्भवम्' इति वदन् महेश्वरः प्रत्याख्यातो भवति । एवं च - - " विष्कंभाद्यत्रिनाडीः शुभकृतिषु च षट् गंडयोः पंच शूले व्याघाते वज्रकेंऽकाः' इति केशवज्योतिर्विदुक्तिरपि चिंत्या ॥ ३४ ॥ ३५ ॥
।
अथ पक्षरंध्रतिथीरावश्यकत्वे सति तन्निष्ठवर्ज्यघटीश्चानुष्टुभाह
३१
वेदांगाष्टनवाकेंद्रपक्षरन्ध्रतिथौ त्यजेत् ।
वस्वकमनुतत्त्वाशाशरा नाडीः पराः शुभाः ।। ३६॥ वेदांगेति ॥ चतुर्थी, षष्ठी, अष्टमी, नवमी, द्वादशी, चतुर्दशी; एताः पक्षरंधसंज्ञास्तिथयो ज्ञेयाः । आसु शुभकृत्यावश्यकत्वे सति क्रमादादिमाः वस्त्रंकमनुतत्त्वाशाशरा नाडीस्त्यजेत् । यथा - चतुर्थ्यामादिमा अष्ट घटिकाः, षष्ठ्यां नव, अष्टम्यां चतुर्दश, नवम्यां पंचविंशतिः, द्वादश्यां दश, चतुर्दश्यां पंच 'घटिकास्त्याज्या इत्यर्थः । अथ परा उर्वरिता नाड्यः शुभकृत्ये शुभा ज्ञेयाः ।
दाह दोषनिरूपणाध्याये वसिष्ठः - ' चतुर्दशी चतुर्थी च अष्टमी नवमी तथा । षष्ठी च द्वादशी चैव पक्षच्छिद्राह्वया इमाः ॥ क्रमादेतासु तिथिषु वर्जनीयाश्च नाडिकाः । भूताष्टमनुतत्त्वांकदश शेषास्तु शोभनाः ॥ दोषनाडीषु यत्कर्म शुभं सर्व विनश्यति । विवाहे विधवा नारी व्रात्यः स्याच्चोपनायने ॥ सीमंते गर्भनाशः स्यात्प्राशने मरणं ध्रुवम् । अग्निना दह्यते क्षिप्रं गृहारंभे विशेषतः ॥ राजराष्ट्रविनाशः स्यात्प्रतिष्ठायां विशेषतः । किमत्र बहुनोक्तेन कृतं कर्म विनश्यति ॥' इति । कश्यपस्तु सर्वसाधारण्येन दशैव घटिकास्त्याज्या इत्याह- 'अष्टमी द्वादशी षष्ठी पक्षरंध्रास्तु तासु च । मंगले सर्वदा त्याज्या नूनं हि दश नाडिकाः ॥' इत्यनेन । एतस्यैव तिथिवारनक्षत्रयोगकरणात्मकस्य पंचांगस्य शुद्धिः पंचांगशुद्धिरित्युक्तं नारदेन - ' तिथिवार क्षेयोगानां करणस्य च मेलनम् | पंचांगमस्य शुद्धिः पंचांगशुद्धिरुदाहृता ॥ यस्मिन्पंचांगदोषोऽस्ति तस्मिलग्नं निरर्थकम् ॥' इति ॥ ३६ ॥