________________
मुहूर्तचिंतामणिः । [महापातमध्यकालो वर्ण्यः मासौ क्षयमासाधिकमासौ वज्यौं । 'असंक्रांतिमासोऽधिमासः स्फुटं स्थाविसंक्रांतिमासः क्षयाख्यः कदाचित्' इति द्वयोरपि लक्षणं सिद्धांतशिरोमणावभिहितम् । ग्रंथकृदपि संक्रांतिप्रकरणे (श्लो० २०)-'स्पष्टार्कसंक्रांतिविहीन उक्तो मासोऽधिमासः क्षयमासकस्तु । द्विसंक्रमः-' इति वक्ष्यति । एतच्च तत्रैव सम्यव्याख्यास्यते । तदुक्तं वसिष्ठसंहितायाम्-'यस्सिन्दर्शस्यांतादर्वागेवापरं दर्शम् । उल्लंध्य भवति भानोः संक्रांतिः सोऽधिमासः स्यात् ॥ आद्यंतदर्शयोर्मध्ये भानोरेवांतयोर्यदा । संक्रांतिद्वितयं स्याञ्चेन्यूनमासः स उच्यते ॥ मासप्रधानाखिलमेव कर्म मुक्त्वाखिलं कर्म न कार्यमत्र । यज्ञोपवासव्रततीर्थयात्राविवाहकर्मादि विनाशमेति ॥' इति । अथ कुलिकः वारसंबंधी मुहूर्तदोषो वर्त्यः। तथा प्रहरार्ध वारसंबंधेनार्धयामा वाः । यदाह वसिष्ठः"निधनं प्रहरार्धे तु निःस्वत्वं यमघंटके । कुलिके सर्वनाशः स्याद्रात्रावते न दोषदाः ॥' इति । कुलिकादीन् दोषान् ग्रंथकृदने वक्ष्यति । अथ पातो महापातो महागणितसाध्यो व्यतीपातनामको वैश्तिनामकश्च वयः । यदाह नारदः-'यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे । अपि सर्वगुणोपेतं दंपत्योर्मरणप्रदम् ॥' इति । कश्यपोऽपि-'महावैधतिपाताभ्यां दूषितं लग्नमुत्तमम् । राजावधूतं पुरुष यद्वत्तसंपरित्यजेत् ॥' इति । पात: व्यतीपातः । महाशब्दः प्रत्येकमभिसंबध्यते । महावैधतिर्महाव्यतीपातश्च ताभ्यामित्यर्थः । महापातो नाम रवींदुक्रांतिसाम्यम् । तदानयनं तु गणितग्रंथेभ्यः सूर्यसिद्धांतादिभ्यो ज्ञेयम् । ततो महापातकालं निर्णीय तत्कालस्यातिसूक्ष्मत्वात्कस्मिन्काले मंगलकृत्यं निषिद्धमित्याशंक्य महापातस्थितिकालानयनमप्युक्तं तत्रैव । तत्प्रयोजनं सूर्यसिद्धांते-'आद्यंतकालयोर्मध्ये कालो ज्ञेयोऽतिदारुणः। प्रज्वलज्वलनाकारः सर्वकर्मसु गर्हितः॥ नानदानजपश्राद्धव्रतहोमादिकर्मसु । प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ॥' इति । आयंतकालौ-स्पर्शमोक्षस्थितिरूपौ । सिद्धांतशिरोमणावप्युक्तम्-'पातस्थितिकालांतर्मगलकृत्यं न शस्यते तज्ज्ञैः । नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम् ॥' इति । यत्तु वसिष्ठेनोक्तम्-'महापातो वैधतिश्च उपरागसमस्तदा। तस्माद्दिनत्रयं त्याज्यं मध्यपूर्वापराभिधम् ॥' इति । वराहेणापि बृहद्यात्रायामुक्तम्-'एष्यो धनं क्षपयति व्यतिपातयोगो मृत्युं ददाति नचिरादपि वर्तमानः। संतापशोकगदविघ्नभयान्यतीतस्तस्मादिनत्रयमपि प्रजहीत विद्वान् ॥' इति तदेतद्वचनद्वयमपि महापातोपयोगिगणिताशक्त्या कदा महापातः स्यादिति सूक्ष्ममहापातस्थितिकालाऽज्ञानाद्विवाहप्रकरणे (श्लो०५९) पंचास्याजौ' इति वक्ष्यमाणरीत्या महापातसंभावनापरया पातदिवसं निर्णीय पूर्वापरवर्तमानदिनानां त्यागपरमिति प्रतिभाति । 'यस्मिन्दिने महापातस्तदिनं वर्जयेच्छुभे' इति नारदवाक्यमप्येवमेव व्याख्येयम् । यदा तु महापातस्य स्थितिरूपसूक्ष्मकालज्ञानं स्यात्तदा 'स्थूलात् सूक्ष्मं ज्यायः' इति न्यायेन स एव पातमध्यकालो विवाहादिमंगलकृत्येषु त्याज्यः, अन्यथा गणितग्रंथेषु पात• १ आद्यंतदर्शयोः अंतयोर्मध्ये एकस्मिन्मासे इत्यर्थः ।