________________
तिथिक्षयतिथिवृद्धिपरिहारः] शुभाशुभप्रकरणम् ।
२९
जन्माभूत्स चांद्रमासो जन्ममासतया त्याज्य इति युक्तमुत्पश्यामः । 'इंद्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः। अग्नीषोमौ स्थिती मध्ये समाप्तौ पितृसोमकौ ॥' इति हारीतवचनात् । 'उपवासव्रतोद्वाहयात्राक्षौरोपनायनम् । तिथिवर्षादि निखिलं चांद्रमानेन गृह्यते ॥' इति कश्यपोक्तेश्च । अथात्र तिथिशब्दो वसिष्टवाक्यस्वरसादुक्तः । अत एव नारदसंहितायां रत्नमालादिग्रंथेषु च दिवसपदं तिथिपरं व्याख्येयम् । अन्यथा जन्मवारेऽप्यतिप्रसंगः स्यात् । अथ व्यतीपातो वर्यः । सप्तविंशतियोगेषु व्यतीपातो नाम योगः स्पष्टसूर्यचंद्रयोगजन्मा सप्तदशसंख्याको निंद्यः । उक्तं च वसिष्टेन-'सवैधृतो यो व्यतिपातयोगः सर्वोऽप्यनिष्टः परिघार्धमाद्यम् ।' इति । तथा भद्रा वा, भद्रा सप्तमं करणं वर्ण्यम् । यदाह वसिष्टः-'न कुर्यान्मंगलं विष्टयां जीवितार्थी कदाचन । कुर्वन्नज्ञस्तदा क्षिप्रं तत्सर्वं नाशतां व्रजेत् ॥' इति । भद्राप्रवृत्तिरंगविभागकल्पनं च विशेषतोऽग्रे वक्ष्यते। तथा वैशतिः पूर्वलक्षणलक्षितः सप्तविंशतिसंख्याको योगो निंद्यः । अत्र संमतिः पूर्वमुक्ता । अथ 'नामैकदेशे नामग्रहणम्' इति न्यायमनुसृत्य 'भीमो भीमसेन' इत्यादिवत् अमा अमावास्या निंद्या । 'सदैव दर्श पितृकर्म चैव नान्यद्विधेयं शुभपौष्टिकाद्यम् । मूढैः कृतं यच्च शुभोत्सवाद्यं विनाशमायात्यचिरादृशं तत् ॥' इति वसिष्ठोक्तेः । अथ पितृदिनं माता च पिता च पितरौ, 'पुमान् स्त्रिया' इत्येकशेषः, पित्रोदिन3 मातापित्रोर्मरणदिनं । श्राद्धदिनमिति यावत् । तदपि निषिद्धम् । यदाह शार्ङ्गधरः-'भद्रार्धयामकुलिकं व्यतिपातं वैशतिं च परिघार्धम् । क्रांतिसमत्वं जह्यासंक्रांति क्षयदिनं पित्रोः ॥' इति । अथ तिथिक्षयी वज्र्ये । क्षयश्च ऋद्धिश्च क्षयर्डी, तिथेः क्षय तिथिक्षयर्डी; तिथिक्षयस्तिथिवृद्धिश्चैते वयें । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् । तत्र तिथिक्षयलक्षणम् । यत्र यो वारस्तिथिद्वयांतं स्पृष्ट्वा तृतीयतिथेः कंचिदादिमभागमपि स्पृशति तत्र वारे मध्यमा तिथिः क्षयसंज्ञा। यथा-नवमी रवौ घटिकाद्वयं पुनर्दशमी रवौ षट्पंचाशद्धटिकाः ५६ एकादश्याश्च घटिकाचतुष्टयं रविवारेण सह संबद्धमिति दशमीतिथिःक्षयसंज्ञिता अवमसंज्ञितेत्यपि चाहुः ॥ अथ तिथिवृद्धिलक्षणम् । यत्र या तिथिर्वारद्वयांतं स्पृष्ट्वा तृतीयवारस्यादिमं कंचिद्भागं स्पृशति तत्र सा तिथिर्वृद्धिसंज्ञा त्रिद्युस्मृगित्यपि चेत्याहुः। यथा-तृतीया रवौ अष्टपंचाशद्धटिकाः ५८, ततश्चतुर्थी सोमे षष्टिघटिकाः ६०, ततो भौमवासरे चतुर्थी घटिकात्रयं ३, अतश्चतुर्थी वारत्रयसंबंधात्तिथिर्वृद्विसंज्ञा । यदाह वसिष्ठः-'स्युस्तिस्रस्तिथयो वारे एकस्मिनवमा तिथिः। तिथिर्वारत्रयं चैका त्रिद्युस्पृक् द्वेऽतिनिंदिते ॥ कृतं यन्मगलं तत्र विद्युस्मृगवमे दिने । भस्मीभवति तत्क्षिप्रमग्नौ सम्यग्य/धनम् ॥' इति । द्वेऽतिनिंदिते इत्यत्र संधिस्त्वार्षः। यत 'ईदेविवचनं प्रगृह्यम्' इति प्रगृह्यसंज्ञायां संध्यभावप्रसक्तः । अथ शुभकृत्यावश्यकत्वे तिथिक्षयतिथिवृद्ध्योः परिहारमाह दोषापवादाध्याये वसिष्ठः- 'अवमाख्यं तिथेदोष केंद्रगो देवपूजितः । हंति यद्वत्पापचयं व्रतं द्वैवार्षिकं यथा ॥ त्रिद्युस्मृगाह्वयं दोषं सौम्यः केंद्गतः सदा । हंति यद्वत्पापचयमशून्यशयनव्रतम् ॥' इति । अथ न्यूनाधि