________________
२८
- मुहूर्तचिंतामणिः । [जन्मादयः सर्वत्र वाः मासांश्च दलग्रहे। आपादग्रहणे धिष्ण्यं मासमेकं विवर्जयेत् ॥' इति। अथ पूर्वमिति । क्रमादित्यनुवर्तत एव । अत्रापि प्रस्तेऽस्तगे ग्रस्तास्ते पूर्व विघस्रास्त्रिदिन नेष्टम् । पूर्व न सम्यक् त्रिदिनमित्यर्थः । अर्थादग्रेतनानि दिनानि समीचीनानि । तथा ग्रस्तेऽभ्युदिते ग्रस्तोदये परस्तात्पश्चात्रिदिनं नेष्टं पूर्व सम्यक् त्रिदिनमित्यर्थः । तथा अर्धखंडे प्रस्तोदयग्रस्तास्तयोरभावेऽपि अर्धनासे बिंबमानादर्धग्रासे उभयोः कालयोः प्राक्पश्चानिदिनं नेष्टम् । यदाह गुरुः-'प्रस्तास्ते त्रिदिन पूर्व पश्चाद्रस्तोदये तथा। खंडग्रासे वित्रिदिनं निःशेषे सप्त सप्त च ॥' इति । कश्यपोऽपि-'ग्रस्तोदये परो दोषो प्रस्तास्तेऽर्वाक् शशीनयोः । द्युनिशार्धे तूभयं स्यात् खंडिखंडव्यवस्थयोः ॥' इति । वसिष्ठोऽपि-प्रस्तोदये चोर्ध्वमनिष्टमादौ ग्रस्तास्तमानेऽप्युडुमासषट्कम् ॥' इति । अतः खण्डग्रहणादिसद्भावेऽपि ग्रस्तोदयग्रस्तास्तत्वाभावात्पूर्व पश्चाञ्चोक्तदिनानि वानीति सर्वत्र विषयविवेकः ॥ ३३॥ · अथ सामान्यतोऽवश्यवानि पंचांगदूषणादीनि वसंततिलकयानुष्टुभा चाह । जन्मक्षमासतिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वा इति द्वितीयश्लोकेनान्वयः । तान् पदार्थानाह
जन्मक्षमासतिथयो व्यतिपातभद्रा
वैधृत्यमापितृदिनानि तिथिक्षयी । न्यूनाधिमासकुलिकप्रहरार्धपाता
विष्कंभवज्रघटिकात्रयमेव वय॑म् ॥ ३४ ॥ परिघाधं पंच शूले षट् च गंडातिगंडयोः।
व्याघाते नव नाड्यश्च वाः सर्वेषु कर्मसु ॥ ३५ ॥ • जन्मङ्केति ॥ यस्मिन्नक्षत्रे जन्म भवेत्तजन्मक्षं, यस्मिन् मासे जन्म भवेत् स जन्ममासः, यस्यां तिथौ जन्म भवेत् सा जन्मतिथिः, एते वाः । तदाह वसिष्ठः-'स्वजन्ममासःतिथिक्षणेषु वैनाशिकावृक्षगणेषु भेषु । नोद्वाहमात्माभ्युदयाभिलाषी नैवाद्यगर्भद्वितयं कदाचित् ॥' अयं च जन्मनक्षत्रमासतिथिनिषेध आद्यगर्भस्यैव । यदाह नारदः-'जन्ममासे न जन्मः न जन्मदिवसेऽपि वा । आद्यगर्भसुतस्यापि दुहितुर्वा करग्रहः ॥' इति । अनेनाद्यगर्भव्यतिरिक्तकन्यायास्तादृशवरस्य च जन्मर्भमासतिथिषु शुभफलत्वमुक्तं भवति । अत एवाह च्यवनः-'जन्मः जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेदूढा पुत्राढ्या पतिवल्लभा ॥' इति । अथ जन्ममासलक्षणम् । जगन्मोहने वृद्धगर्गः-'आरभ्य जन्मदिवसं यावत्रिंशद्दिनं भवेत् । स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु ॥' इति । अस्यापि विशेषस्तत्रैव-'जातं दिनं दूषयते वसिष्ठः पंचैव गर्गस्त्रिदिनं तथाऽत्रिः । तजन्मपक्षं किल भागुरिश्च व्रते विवाहे गमने क्षुरे च' इति । वस्तुतस्तु-यस्मिंश्चान्द्रमासे चैत्रादौ