________________
ग्रहणीयनक्षत्रादिवर्ण्य कालः] शुभाशुभप्रकरणम् १ |
णोत्पातभं त्याज्यं मंगलेषु ऋतुत्रयम्' इति । मंगलेषु ऋतुत्रयमित्यत्र 'ऋत्यकः' इति प्रकृतिभावः । गुरुरपि - 'उत्पातैः पीडितास्ताराः षण्मासैः प्रकृतिं ययुः । राहुकेतुविभुक्तं यदृक्षचक्रं निपीडितम् ॥ वत्सरार्धेन शुध्येत ग्रहयुद्ध - गतं च भम् । नक्षत्रग्रहयोगेन यदुक्तं दोषसंचयम् ॥ तदिदं सर्वकार्येषु शुभेषु परिवर्जयेत् ॥' इति । ग्रहयुद्धभेदाश्चत्वारः - भेदः, उल्लेखः, अंशुविमर्दनं, अपसव्यं चेति । यथाह वराहः – 'आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः । युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥' इति । तल्लक्षणानि सूर्यसिद्धांते— 'उल्लेखस्तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते । युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् ॥ अंशादूनेऽपसव्यं स्याद्युद्धमेकोऽत्र चेदणुः ॥' इति । ननु ग्रहयुद्धादिकं सिद्धांतविरुद्धम् । यतः — 'कक्षाः सर्वा अपि दिविषदां चक्रलिप्तांकितास्ता वृत्ते लध्ध्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मादेते शशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रांता इव शशधराद्भांति यांतः क्रमेण ॥ इति भास्कराचार्योक्तेर्महांतरोर्ध्वाधो भावेनावस्थितानां ग्रहाणां युद्धासंभव एव । लोके हि समीपवर्तिनोः पुंसोर्युद्धादि दृश्यते, तत्कथमियमत्र शास्त्रे ग्रहयुद्धोक्तिः ? सत्यम् । अत्र युक्तिपुरःसरं वराह एवं समादधाति स्म - ‘वियतिचरग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् । अतिदूराद्दृग्विषये समतामिव संप्रयातानाम् ॥ आसन्नक्रमयोगाद्भेदोलेखांशुमर्दनासव्यैः । युद्धं चतुप्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥' इति । तेन भूवर्तिनां राज्ञामन्येषां वा शुभाशुभफलसूचनार्थं युद्धसमागमाद्युक्तिः । उक्तं च सूर्यसिद्धांते - 'भावाभावाय लोकानां कल्पनेयं प्रदर्शिता । स्वमार्गतः प्रयात्येते दूरमन्योन्यमार्गतः ॥' इति । ननु यथा ग्रहणं तिथिसंधौ भवति तथा नक्षत्रद्वयसंधौ जायमानं किं नक्षत्रं दूषयति, किं परं किं पूर्वं किमुभयमिति ? अविशेषादुभयमिति वयं ब्रूमः । यदुक्तं शार्ङ्गयविवाहपटले – ' यस्मिन् विधुं राहुरिनं च गृह्णाति तत्याज्यमृतुत्रयं स्यात् । पाणिग्रहे पुंमरणं विधत्ते द्वयोर्भयोश्चेयमेव जह्यात् ॥' इति । अथासन्नपक्षद्वयग्रहणे किं द्वयोस्त्यागः षण्मासमुत कस्यचित्कश्चिद्विशेषः ? अयमपि निर्णयस्तत्रैवाभ्यधायि पक्षांतरेण ग्रहणद्वयं च यदा तदादिग्रहणोपगं भम् । पक्षाद्विशुद्धं भवति द्वितीयं पाणिग्रहे शुध्यति भोगषट्कात् ॥' इत्यलमतिप्रसंगेन ॥ ३२ ॥
"
अथ ग्रासभेदेन कियत्संख्याकेषु मासेषु ग्रहणीयनक्षत्रनिषेधं तथा प्रागादिदिवसांश्च निषिद्धानिंद्रवज्रा छन्दसाहनेष्टं ग्रहक्षं सकलार्धपादग्रासे क्रमातर्कगुणेंदुमासान् ।
-
२७
पूर्वं परस्तादुभयस्त्रिघखा ग्रस्तेऽस्तगे वाभ्युदितेऽर्धखंडे ॥ ३३ ॥
नेटमिति । ग्रह ग्रहणनक्षत्रं क्रमात्संपूर्णार्धचतुर्थांशग्रासे सति षट्त्र्येकमासान् नेष्टम् । यथा - ग्रहणभं सर्वग्रासे मासषट्कं, अर्धग्रासे मासत्रयं, चतुर्थांशग्रासे मासमेकं त्यजेदित्यर्थः । यदाह गुरुः - 'सर्वग्रासे तु षण्मासांस्त्रीन्