________________
२६
.: मुहूर्तचिंतामणिः । [उत्पातनक्षत्रत्यागे कालमर्यादा यवनाचार्यस्य मतं पंच मुहूर्ताश्च दूषयति राहुः ॥' इति । अयं च ग्रहणीयो निषेधो नित्यनैमित्तिकादिकृत्यव्यतिरिक्तविषयः । यदाह गुरुः–'नित्ये नैमित्तिके काम्ये जपहोमक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न वियते॥' इति । ग्रहः अहणम् । अथ शुभदोत्पातैश्च दुष्टं दिनं त्यज । शुभं कल्याणं ददति लोकेभ्य इति शुभदा एतादृशा ये उत्पाता वसंतातुपुरस्कारेणोत्पातविशेषाः शुभा इत्युक्तम् । तादृशैरुत्पातैर्दुष्टं दूषितं दिनं द्वित्वातिरिक्तसंख्याविशेषानवगमादेकत्वस्य च प्रतीतेरेकं दिनं त्याज्यमित्यर्थः। अत्र हेतुः शुभदत्वमुत्पातानाम् । शुभदोत्पातानाह ऋषिपुत्रकृतैः श्लोकैर्वराहः'वज्राशनिमहीकंपाः संध्यानिर्घातनिःस्वनाः । परिवेषरजोधूमरक्तास्तिमनोदयाः ॥ द्रुमेभ्योऽनरसस्नेहमधुपुष्पफलोद्माः । गोपक्षिमधुवृद्धिश्च शिवाय मधुमाधवे ॥ तारोल्कापातकलुषं कपिलादुमंडलम् । अनग्निज्वलनास्फोटधूमरेखानिलाकुलम् ॥ रक्तपझारुणं सांध्यं नभः क्षुब्धार्णवोपमम् । सरितां चांबुसंशोषं दृष्ट्वा ग्रीष्मे शुभं भवेत् ॥ शक्रायुधपरीवेषविद्युच्छुष्कविरोह- . णम् । कंपोद्वर्तनवैकृत्यं रसनं दारणं क्षितेः ॥ नधुदपानसरसां वृक्ष्यतरणप्लवाः । शीरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ दिव्यस्त्रीभूतगंधर्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवांबरे ॥ गीतवादित्रनिर्घोषो वनपर्वतसानुषु । सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः । शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥ दिशो धूमांधकाराश्च सनभोवनपर्वताः । उच्चैः सूर्योदयेऽस्ते च हेमंते शोभनाः स्मृताः ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् । कृष्णांजनाभमाकाशं तारोल्कापातपिंजरम् ॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु। पत्रांकुरलतानां च विकाराः शिशिरे शुभाः ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वतौं शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः॥' इति । अथ ग्रहभिन्नभं ग्रहैभौंमादिभिः पंचभिभिन्नं सिद्धांतोक्तरीत्या भेदयोगं प्राहमेतादृशं भं नक्षत्रं त्यज । तथा यौद्धं यन्नक्षत्रं भौमादिपंचग्रहयुद्धमध्यपतितं सहश्यते तत्त्यज । तत्र क्रूरयोगादेव दोषसत्त्वे युद्धोपघातस्तु दोषाधिक्यसूचनार्थः । सौम्यग्रहयुद्धे तु स एव दोषः । अत्र केचित्-यस्मिन् दिननक्षत्रे भौमादीनां युद्धं जातं तन्नक्षत्रं त्याज्यामित्याहुः; तन्न, प्रमाणाभावात् । तथोत्पातभमुत्पातैर्दिव्यांतरिक्षभौमैर्दूषितं भं त्यज । अयमर्थः-भौमांतरिक्षयोरुत्पातयोग्रहयुद्धवत्प्रत्यक्षदृश्यनक्षत्राभावाद्दिननक्षत्रमेव त्याज्यम् । दिव्योत्पाते तु केत्वादिना प्रत्यक्षतो यन्नक्षत्रमाक्रांतं तत्त्याज्यम् , भौमांतरिक्षोत्पातसाहचर्याद्दिननक्षत्रमपि त्याज्यम् । एवं नक्षत्रचतुष्टयं षण्मासम् । 'कालाध्वनोरत्यंतसंयोगे' इति द्वितीया। षण्मासमभिव्याप्येत्यर्थः। यदुक्तं शाीयविवाहपटले'क्रूरैर्भुक्तं युक्तं भोग्यं च तथैव खेटयुद्धगतम् । ग्रहभिन्नकेतुहतभं त्यजेन्महोत्पातदुष्टं यत् ॥ यदाहुसंदर्शनदुष्टमृक्षं शीतांशुयुक्तं च विवाहलग्नम् । आमासषट्कं विदधीत तस्मिन्विवाहयात्रादि शुभं न चैव ॥' इति । नारदोऽपि-ग्रह