________________
ग्रहणे कार्यावश्यकत्वे परिहारः] शुभाशुभप्रकरणम् ।
२५
न च ग्राह्या न शस्तास्ते नवांशकाः । कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम् ॥' इति । क्रूरैः क्रूरग्रहैरुग्रा भयजनका अंशा नवांशा न ग्राह्या इत्यर्थः। अथ ग्रहणतः पूर्व दिनानां त्रयं त्यज । ग्रहणतः सूर्यचंद्रग्रहणदिनात्प्रथमं दिवसत्रयं त्याज्यम् । यदाह गर्गः-'चंद्रसूर्योपरागेषु त्र्यहं प्रागशुभं भवेत् । सप्ताहमशुभं पश्चात्स्मृतं ग्रहणशूलकम् ॥' इति । उपरागः-ग्रहणम् । 'उपरागो ग्रहो राहुग्रस्ते त्विंदौ च पूणि च' इत्यमरोक्तेः । अथ उत्पातग्रहतोऽयहांश्च । उत्पातो नाम स्वभावतो वैपरीत्यम् । यदाह वराहः-'तेषां संक्षेपोऽयं प्रकृतेरन्यथात्वमुत्पातः' इति । ते चोत्पातास्त्रिविधाः-दिव्याः, आंतरिक्षाः, भौमाश्च । तत्र दिव्यःकेत्वादिः, आंतरिक्षः-गंधर्वनगरादिः, भौमः-भूमिकंपादिः । एतदप्याह वराहः-'अपचारेण नराणामुपसर्गः पापसंचयाद्भवति । संसूचयंति दिव्यांतरिक्षभौमास्तमुत्पाताः॥ दिव्यं ग्रहसंवैकृतमुल्कानिर्घातपवनपरिवेषाः। गंधर्वपुरपुरंदरचापादि यदांतरिक्षं तत् । भौमं चरस्थिरभवं तच्छांतिभिराहतं शममुपैति ॥' इति । ते ह्युत्पाता यस्मिन् दिने स्युस्तद्दिनमारभ्य अग्रहान् सप्त दिनानि त्यज। यदाह नारदः–'उत्पातग्रहणादूवं सप्ताहं निखिलग्रहे' इति। दीपिकायां च—'अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । सप्तरात्रं न कुर्वीत यात्रोद्वाहादिमंगलम् ॥' इति ।--'अनिष्टे अकालवृष्टयादिदूषिते काले' इति तट्टीकाकारो व्याख्यत् । अव्यहानिति अद्रयश्च तान्यहानि चेति कर्मधारयसमासे 'राजाहःसखिभ्यष्टच्' इति समासांते टचि कृते 'नस्तद्धिते' इति टिलोपे च 'रात्राहाहाः पुंसि' इति पुंलिंगत्वम् । अत एव 'वाहाः प्रदेया अविशुद्धशुद्धौ' इत्यादयः प्रयोगा उपपद्यन्ते । तथा ग्रहतो ग्रहणत ऊर्ध्व सप्त दिनानि त्यज। अत्र ग्रहणशब्देन सर्वग्रहणं विवक्षितम् । ततो न्यूनत्वे त्रैराशिकम् । यदाह वसिष्ठः-'सर्वग्रासे दिनान्यष्टौ सर्वकार्येषु वर्जयेत् । षद दिनानि त्रिभागोने अर्धग्रासे चतुर्दिनम् ॥ चतुर्थांशे त्रिरात्रं स्याग्रहणे चंद्रसूर्ययोः ॥' इति । नारदोऽपि—'निःशेषे सप्त सप्त च' इत्याह । एतच्च यद्यप्यविशेषेणोक्तं तथापि ग्रहणादनंतरमेव ज्ञेयम् । 'उत्पातग्रहणादूर्ध्व सप्ताहं निखिलप्रहे' इति तस्यैवोक्तेः । अंगिरा अपि-'सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् । त्रिध्येकांगुलतो ग्रासे दिनमेकं तु वर्जयेत् ॥' इति । अनयोर्वाक्ययोविषयव्यवस्था देशभेदेनाचारभेदादवगंतव्या । क्वचित्सामान्यतो दिनसप्तकमुक्तम् । यदाह गर्गः–'सूर्यचन्द्रोपरागौ द्वौ महादोषाह्वयावुभौ । सप्तरात्रं तयोरूवं सर्वशोभननाशनम् ॥' इति । एतदपि सर्वग्रासपरतया योज्यम् । शाीयविवाहपटले चन्द्रस्य सर्वग्रासे उभयतो दिनसप्तकं त्याज्यमित्युतम्-'कृत्स्नचन्द्रग्रहे त्याज्यं प्राक् पश्चादिनसप्तकम्' इति । उत्पातविशेषे ग्रहणे च बहूनि दिनानि वान्याहुः । यदाह चंडेश्वरः-'ग्रहे रवींद्वोरवनिप्रकंपे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदंति तज्ज्ञास्त्रयोदशाहानि वदंति केचित् ॥' इति । ग्रहणे तु कार्यस्यावश्यकत्वविशेष परिहार उक्तो ज्योतिर्निवंधे-'पञ्च दिनानि वसिष्टस्त्रिदिनं गर्गस्तु कौशिकस्त्वेकम् ।
३ मु० चि०