________________
: मुहूर्तचिंतामणिः । [शुभकृत्ये वय॑वस्तूनि योगस्य यादृशं नाम तद्योगसत्वे प्रारब्धकार्यफलमपि तादृशमेवेत्यर्थः । उक्तं च नारदेन–'योगाः स्वसंज्ञाफलदास्त्वष्टा विंशतिसंख्यकाः' इति ॥ ३० ॥ अथ दुष्टयोगानां देशभेदेन परिहारमनुष्टुभाह
कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः।
हूणवंगखशेष्वेव वास्त्रितयजास्तथा ॥ ३१ ॥ - कुयोगा इति ॥ तिथिवारोत्थाः कुयोगाः दुष्टयोगाः क्रकचादयः, तिथिभोत्थाः='अनुराधा द्वितीयायाम्' (श्लो०२०) इत्यादयः । भवारजाः='याम्यं स्वाष्ट्र वैश्वदेवम्' (श्लो० ५) इत्यादयः, तथा त्रितयजा तिथिवारनक्षत्रजाः 'घर्जयेत्सर्वकार्येषु हस्ताकं पंचमीतिथौ' (लो० १२ ) इत्येवमादयस्ते सर्वे दुष्टयोगा हूणवंगखशेष्वेव । हूणवंगौ-याच्यदेशौ । खशो देश उत्तरस्यां दिशि प्रसिद्धस्तत्रैते वाः । अन्यदेशेषु निषिद्धा न भवंतीत्यर्थसिद्धमेव । उक्तं च नारदेन–'तिथिवारोद्भवा नेष्टा योगा वारर्भसंभवाः । हूणवंगखशेभ्योऽन्यदेशेष्वेते शुभप्रदाः ॥' इति । अथ तिथिवारयोरिक्षयोश्च युतेरुपलक्ष्यत्वादन्ययुतावपि परिहारो शेयः॥३१॥
अथ समस्तशुभकृत्ये वयंपदार्थान् शार्दूलविक्रीडितेनाह- सर्वस्मिन्विधुपापयुक्तनुलवावर्धे निशाह्वोर्घटी- व्यंशं वै कुनवांशकं ग्रहणतः पूर्व दिनानां त्रयम् ।
उत्पातग्रहतोऽयहांश्च शुभदोत्पातैश्च दुष्टं दिनं __षण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातभम् ॥३२॥ - सर्वस्मिन्निति ॥ हे पंडित ! सर्वस्मिन् शुभे कार्ये एतानि वस्तूनि वै निश्चयेन त्यज परिहरेत्यर्थः । कानीत्यत्राह-विध्विति । विधुः चंद्रः, पापा:= क्षीणचंद्रसूर्यभौमशनयः । 'क्षीणेद्वर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः' इति वराहोक्तेः। राहुकेत्वोरपि पापत्वं दीपिकायामुक्तम्-'अोनेंद्वर्कसौराराः पापा ज्ञस्तैर्युतोऽपरे । शुभाः पापौ तमःकेतू विष्णुधर्मोत्तरोदितौ ॥' इति । वसिष्ठेनापि–'सूर्यभौमशनिराहुकेतवः पापसंज्ञखचराः क्षयिचंगः । पूर्णचंद्रगुरुशुक्रसोमजाः सर्वकर्मसु हि सौम्यखेचराः ॥' इति । तत्र विधुना पापेन वा पापैर्वा युक्तौ तनुलवौ लग्ननवांशी त्यज । 'पूर्णः क्षीणोऽपि वा चंद्रो लग्ने सर्वत्र गर्हितः' इति कश्यपोक्तेः । श्रीपतिश्च–'सर्वार्थसिद्धिषु शशी न शुभो विलग्ने' इति । दैवज्ञमनोहरे गुरुः-'पापेंदू लग्नगौ त्याज्यौ सर्वेण शुभकर्मसु । अक्षीणं कर्किगोजस्थं केऽप्याहुर्लग्नगं शुभम् ॥' इति । अथ निशाहोरर्धे राज्यर्धे दिनार्धे च घटीत्र्यंशं विंशतिपलानि दश पूर्व दश पश्चाच्च पलानि त्यज । उक्तं च शाीये-'मूर्तः कालो निवसति महानिशायां च दिनदले यस्मात् । दश पूर्व दश परतस्तस्माद्वानि च पलानि ॥' इति । अथो कुनवांशकं पापग्रहनवांशं त्यज । यदाह नारदः-'क्रूरोग्रांशा