________________
२३
उत्पातादियोगाः तत्फलं च] शुभाशुभप्रकरणम् । प्रकारेणानन्दादिसमीचीनयोगसंबंधिनक्षत्रैरुपनिबद्धाः । अत एवानयोः पद्ययोरार्षमूलाभावः । अमुमेवाशयं मनस्यभिसंधाय जगन्मोहनज्योति:सारसागरादिनिबन्धेषु स्वेच्छया न्यूनाधिकनक्षत्रैः सिद्धियोगा उक्ताः । तत्र भीमपराक्रमः-'मूलं रवी पुष्यकरोत्तराणि वेधा मृगांकः श्रवणं च सोमे । कृशानुपुष्योत्तरभानि भौमे बुधेऽनुराधा वरुणः कृशानुः ॥ बृहस्पतौ पुष्यपुनर्वसू च भगोऽश्विनी च श्रवणं च शुक्रे । शनैश्चरे स्वातिपितामही च योगाः किलैते शुभदायिनः स्युः ॥' इति । दीपिकायां च-'ध्रुवगुरुकरमूलपौष्णभान्यर्कवारे' इत्यादिभिर्नक्षत्रैः सिद्धियोगाभिधानं युक्तमेव । 'हस्तक्षमर्कवारेंदाविंदुभं प्रथमं कुजे । सौम्ये मित्रभमाचार्य पुष्यं पौष्णं भृगोः सुते । रोहिणी मन्दवारे तु सिद्धियोगाह्वया अमी' इति नारदोक्तवचनार्थोऽस्मिन्पद्ये उक्त एवेति स्वयं पुनर्नोक्तः ॥ २८ ॥ २९ ॥
अथोत्पातमृत्युकाणसिद्धियोगान् शालिन्याहद्वीशात्तोयाद्वासवात्पौष्णभाच ब्राह्मात्पुष्यादर्यमांद्युगक्षैः । स्यादुत्पातो मृत्युकाणौ च सिद्धिारेऽर्काये तत्फलं नामतुल्यम् ।।
द्वीशादिति ॥ आदित्यवारादिषु क्रमात् द्वीशात्-विशाखातः, तोयभात पूर्वाषाढातः, वासवात् धनिष्ठातः, पौष्णभात् रेवतीतः, ब्राह्मात् रोहिणीतः, पुप्यादर्यमति-उत्तराफल्गुनीत आरभ्य, युगः चतुर्भिश्चतुर्भिर्नक्षत्रैः, क्रमादुत्पातमृत्युकाणसिद्धियोगाः स्युः। यथा, रवौ-विशाखा उत्पातः, मैत्रं मृत्युः, ज्येष्टा काणः, मूलं सिद्धिः। एवं सोमे-पूर्वाषाढा उत्पातः, उत्तराषाढा मृत्युः, अभिजित्काणः, श्रवणं सिद्धिः । भौमे-धनिष्ठोत्पातः, शततारका मृत्युः, पूर्वाभाद्रपदा काणः, उत्तराभाद्रपदा सिद्धिः । बुधे-रेवत्युत्पातः, अश्विनी मृत्युः, भरणी काणः, कृत्तिका सिद्धिः । गुरौ-रोहिण्युत्पातः, मृगो मृत्युः, आर्द्रा काणः, पुनर्वसुः सिद्धिः । शुक्र-पुष्य उत्पातः, आश्लेषा मृत्युः, मघा काणः, पूर्वाफल्गुनी सिद्धिः । शनौ-उत्तराफल्गुन्युत्पातः, हस्तो मृत्युः, चित्रा काणः, स्वाती सिद्धियोग इत्यर्थः । तदुक्तं नारदेन-'विशाखादिचतुर्वर्गमर्कवारादिषु क्रमात् । उत्पातमृत्युकाणाख्या योगाश्चामृतसंयुताः ॥' अमृतं-सिद्धिः । ननु चायं पुनरुक्तः श्लोकार्थः । आदित्यवारादिषु हि-'दास्रादर्के मृगादिंदौ' इत्यादिक्रमेणानंदादियोगगणनया उत्पातमृत्युकाणसिद्धियोगा एव संभवंति, नान्ये । किंच-'सूर्येऽर्कमूलोत्तरपुष्यदास्रम्' (श्लो० २८) इति मूलादीनामेव सिद्वियोगाभिधानात्त्र्युक्तिश्च । उच्यते-बालानां शीघ्रबोधनार्थं तथोक्तिः । अथवावश्यवा एते उत्पातमृत्युकाणाः सिद्धियोगोऽप्यतिप्रशस्त इत्येतदर्थ तथोक्तिः । ननु तर्हि देशभेदेन परिहारो वक्ष्यमाणोऽनुपपन्नः। सत्यम् । कार्यस्यावश्यकर्तव्यत्वे समीचीनदिनांतराप्राप्तावपवादप्रवृत्तिरिति युक्तमुत्पश्यामः । तत्फलमिति तेषामुत्पातमृत्युकाणसिद्धियोगानां फलं नामतुल्यम् । यस्य