________________
मुहूर्तचिंतामणिः । [वारेषु भविशेषैः सिद्धियोगाः
अथानन्दादिषु ये दुष्टयोगास्तेषां कियतां सत्यावश्यकत्वे परिहार शालिन्याह
ध्वांक्षे वत्रे मुद्गरे चेषुनाड्यो वर्ज्या वेदाः पद्मलुंबे गदेऽश्वाः । धूम्रे काणे मौसले भूर्द्वयं द्वे रक्षोमृत्युत्पातकालाच सर्वे ॥ २६ ॥
ध्वांक्ष इति ॥ ध्वांक्षवज्रमुद्गरयोगेषु आया इषुनाब्यः पंच घट्यो वर्ज्याः । पद्मलुंबयोगयोर्वेदाश्चतस्रो घटिका वर्ज्याः । एवं गढ़े अश्वाः सप्तघटिकाः, धूम्रे भूरेकैव घटिका, काणे घटिकाद्वयं, मुसलयोगे घटिके द्वे, राक्षसमृत्यूत्पातकालाः षष्टिघटिकात्मकाः सर्वेऽपि वर्ज्याः । अत्र श्लोके अनुक्sपि चरयोगे घटिकात्रयं वर्ज्यम् । उक्तं च ज्योतिः सारसागरे - 'ध्वांक्षेद्रायुधमुद्गरेषु घटिकास्त्याज्यास्तु पंचादितः पद्माऽऽलुंबकयोश्चतस्र उदिता धू सदैका पुनः । द्वे काणे मुसलाह्वयेऽपि च गदे सप्तैव तिस्रश्च रे 'मृत्यूत्पातकरक्षसां दिनगतास्ताः कालदंडे तथा ॥' अत्र दिनशब्देनाहोरात्रमुच्यते । 'पद्मालुंबकयोः' इत्यत्राङ्प्रश्लेषश्छंदोऽनुरोधार्थः ॥ २६ ॥ अथ दोषापवादभूतान् रवियोगाननुष्टुभाहसूर्यभाद्वेदगोतर्क दिग्विश्वनखसंमिते ।
२२
चंद्र रवियोगाः स्युर्दोषसंघविनाशकाः ॥ २७ ॥ सूर्यभादिति ॥ सूर्यो यस्मिन्नक्षत्रेऽस्ति ततश्चंद्रक्षं दिननक्षत्रमित्यर्थः । तस्मिन् चतुर्नवषदशत्रयोदशविंशतिसंख्याके सति रवियोगाः स्युः कीदृशाः ? दोषाणां संवः समूहस्तस्य विनाशका इत्यर्थः । उक्तं च वसिष्ठेन - 'सूर्याच्चतुर्थे दशमे च षष्ठे विश्वक्षंके विंशतिमे नवर्क्षे । भवंति षड् भानुमदृक्षयोगाः कुयोगविध्वंसकराः शुभेषु ॥' इति ॥ २७ ॥
अथ सूर्यादिवारेषु नक्षत्रविशेषैः सिद्धियोगा निंद्रवज्रोपजातिभ्यामाहसूर्येऽर्कमूलोत्तरपुष्यदात्रं चंद्रे श्रुतिब्राह्मशशीज्यमैत्रम् । भौमेश्य हिर्बुध्यकुशानुसार्प ज्ञे ब्राह्ममैत्रार्ककृशानुचान्द्रम् ॥२८॥ जीवेंऽत्य मैत्राश्वयदितीज्यधिष्ण्यं शुक्रेत्यभाग्याश्वयदितिश्रवोभम् शनौ श्रुतित्राह्मसमीरभानि सर्वार्थसिद्धयै कथितानि पूर्वैः ॥२९॥
सूर्ये इति ॥ रविवारे हस्तमूलत्र्युत्तरापुष्याश्विनी नक्षत्राणि सिद्धियोगाः स्युः । एवं चंद्रे श्रवणरोहिणीमृगशिरः पुष्यानुराधाः सिद्धियोगाः । एवं भौमेऽश्विन्युत्तराभाद्रपदाकृत्तिकाश्लेषाः । ज्ञे बुधे रोहिण्यनुराधाहस्तकृत्तिकामृगाः । गुरौ रेवत्यनुराधाश्विनी पुनर्वसुपुष्याः । शुक्रे रेवतीपूर्वा फल्गुन्यश्विनीपुनर्वसुश्रवणाः । शनौ श्रवणरोहिणीस्वातीनक्षत्राणि सर्वार्थसिद्ध्यै समस्तकार्यसिद्ध्यै पूर्वैराचार्यैः कथितान्युक्तानि । अत्रैते सिद्धियोगाः 'दास्रादर्के मृगादिदौ' (श्रो० २५) इत्यादि -
1
१ शुक्रेऽत्यमैत्राश्ध्यदितिश्रवोभम् इति पाठः ।