________________
आनंदाद्यष्टाविंशतियोगाः] शुभाशुभप्रकरणम् १ ।
२१ मस्ति । यदाह राजमार्तड:-'यदि विष्टिय॑तीपातो दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥ हत्यमृताख्यो योगः सर्वाः ण्यशुभानि लीलया नियतम् । न भवति पुनरिह शक्तो वैधतिविष्टिव्यतीपातः ॥' इति सामान्यतः कार्यमात्रप्राशस्त्यप्राप्तावपवादवचनं युक्तमेव । अत्र पितृचरणाः-इयं च प्रशंसाऽमृतयोगकारकनक्षत्रवारोक्तकर्मविशेषगतविशिष्टफलाभिधायिकावगंतव्या, नतु निषिद्धकर्मानुविधायिनी । अत एव पठंति-'भौमाश्विनी प्रवेशे च प्रयाणे शनिरोहिणीम् । गुरुपुष्यं विवाहे च सर्वथा परिवर्जयेत् ॥'-इत्याहुः । अत्र समाधिः-अन्यशुभदिवसासंभवे कृत्यस्य चावश्यकत्वे भौमाश्विन्यादौ निषिद्धेऽपि कार्य कार्यम् , अन्यथा नेति ॥ २२ ॥
अथानंदादीनष्टाविंशतियोगान् शालिन्युपजातिभ्यामाहआनंदाख्यः कालदंडश्च धूम्रो धाता सौम्यो ध्वांक्षकेतू क्रमेण । श्रीवत्साख्यो वज्रकं मुद्रश्च छत्रं मित्रं मानसं पालुंबौ ॥२३॥ उत्पातमृत्यू किल काणसिद्धी शुभोऽमृताख्यो मुसलो गदश्च । मातंगरक्षश्चरसुस्थिराख्यप्रवर्धमानाः फलदाः स्वनाम्ना ॥२४॥
आनंदेति ॥ स्पष्टार्थ पद्यद्वयम् । यदाह नारदः-'आनंदः कालदंडोऽथ धूम्रो धाता शुभाह्वयः । ध्वांक्षो ध्वजाख्यश्रीवत्सवज्रमुद्गरछत्रकाः । मित्रमानसपद्माख्यलुंबकोत्पातमृत्यवः । काणः सिद्धिः शुभामृतमुसलातंककुंजराः । राक्षसाख्यश्वरस्थैर्यवर्धमानाः क्रमादमी । योगाः स्वसंज्ञाफलदास्त्वष्टाविंशतिसंख्यकाः ॥ ॥ २३ ॥ २४ ॥ अथैते योगाः कथं ज्ञेया इत्यनुष्टुभाहदास्रादर्के मृगादिंदौ सार्पाद्भौमे कराद्धे । मैत्राद्गुरौ भृगौ वैश्वाद्गण्या मंदे च वारुणात् ॥ २५॥ दानादिति॥ अत्र नक्षत्राणां सामिजितां गणना कार्या। यतोऽष्टाविंशतिरेते योगाः संभवंति । तथा सति अर्कवारे दास्रादश्विनीनक्षत्रात् सामिजिद्दिननक्षत्रं गणनीयं । तद्यत्संख्याकं स्यात्तत्संख्याको योग आनन्दादिर्भवति । यथा-दिननक्षत्रं श्रवणः तदश्विनीतः सामिजिद्गणनया अयोविंशतिसंख्यमस्ति, तथा सति आनन्दादियोगेषु त्रयोविंशतिसंख्यो गदयोगो जातः । एवमिंदो सोमवारे मृगशीर्षात्पूर्ववद्गणनया आनन्दादियोगा ज्ञेया इत्यर्थः । एवं सर्वत्र व्याख्येयम् । सार्पम् आश्लेषा, करः हस्तनक्षत्रं, मैत्रम् अनुराधा, वैश्वम्-उत्तराषाढा, वारुणं-शततारका । यदाह नारद:-रविवारक्रमादेते दास्रभादिंदुभाद्विधौ । सार्पाद्भौमे बुधे हस्तान्मैत्रभाद्देवमंत्रिणि । वैश्वदेवादृगुसुते वारुणागास्करात्मजे ॥' इति ॥ २५ ॥