________________
२०
मुहूर्तचिंतामणिः । [सिद्धिदा अपि योगाः क्वचिन्निद्याः
बुधानुराधामष्टम्यां दशम्यां भृगुरेवतीम् । नवम्यां गुरुपुष्यं चैकादश्यां शनिरोहिणीम् ॥ २१ ॥
वर्जयेदिति ॥ सर्वशुभकृत्येषु पंचम्यां हस्तनक्षत्रं सूर्यवारं च युगपद्वर्जयेत् । एवं सप्तम्यां भौमाश्विनीमपि, षष्ठ्यां सोममृगनक्षत्रे, अष्टम्यां बुधानुराधां, दशम्यां भृगुरेवतीं, नवम्यां गुरुपुष्यं, एकादश्यां शनिरोहिणीं, वर्जयेदित्यर्थः । हस्तार्कादीन् सिद्धियोगानाह नारदः - 'हस्तर्क्ष सूर्यवारेंदाविंदुभं प्रथमं कुजे । सौम्ये मित्रभमाचार्ये पुष्यं पौष्णं भृगोः सुते ॥ रोहिणी मंदवारे तु सिद्धियोगाह्वया अमी ॥' इति । तत्र त्रितयनिषेधो दैवज्ञमनोहरे'भादित्ये पंचमीहस्तौ सोमे षष्ठी च चंद्रभम् । भौमाश्विन्यौ च सप्तम्यामनुराधां बुधाष्टमीम् ॥ गुरुपुष्यं नवम्यां च दशम्यां भृगुरेवतीम् । एकादश्यां शनिब्राह्मे विषयोगाः प्रकीर्तिताः ॥' इति । अन्यत्रापि - 'अर्के हस्तं पंचमीं च सोमे षष्ठीं च चंद्रभम् । अश्विनीं सप्तमीं भौमे बुधे मैत्रं तथाष्टमीम् ॥ गुरौ पुष्यं च नवम दशमीं रेवतीं भृगौ । एकादशीं शनौ ब्राह्मं वर्जयेत् सर्वदा बुधः ॥' इति । वसिष्ठेन त्वन्यदेव त्रितयं निषिद्धमुक्तम् —'अर्क - वारेऽग्निपंचम्योः सोमे चित्राद्वितीययोः । कुजे पूर्णेदुरोहिण्योः सप्तमीयाम्ययोर्बुधे । गुरौ मित्रत्रयोदश्योः षष्ठी श्रवणयोः सिते । पौष्णाष्टम्योः शनावेते योगा हालाहलाह्वयाः ॥ एषु योगेषु कर्तव्यं शत्रूच्चाटनमारणम् । विवाहादिषु कार्येषु नियतं निधनप्रदम् ॥' इति । अग्निः = कृत्तिका । पूर्णेदुः = पूर्णिमा ॥ २० ॥ २१ ॥
अथ भौमाश्विनीत्यादिकान् सिद्धियोगान् कार्यविशेषेऽतिनिंद्याननुष्टुभाह-. गृहप्रवेशे यात्रायां विवाहे च यथाक्रमम् । मौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ २२ ॥
गृहेति ॥ नूतनगृहप्रवेशेऽतिसिद्धिदामपि भौमाश्विनीं वर्जयेत् । यात्रायां शनौ रोहिणीं वर्जयेत् । विवाहे गुरुपुष्यं विवर्जयेत् । यदाह राजमार्तेड:'भौमाश्विनीं प्रवेशे च प्रयाणे शनिरोहिणीम् । गुरुपुष्यं विवाहे च सर्वथा परिवर्जयेत् ॥' इति । ननु भौमाश्विनी तु प्रवेशे निषिद्धास्ति । कथम् 'व्यर्का - रवारे तिथिषु रिक्ताऽमावर्जितासु च । दिवा वा यदि वा रात्रौ प्रवेशो मंगलप्रदः ॥' इति नारदोक्तेभौमो निषिद्धः ? अश्विनी क्षिप्रसंज्ञनक्षत्रम्, तेन 'क्षिप्रैश्वरैः स्यात्पुनरेव यात्रा' इति फलम् । ततः सापि निषिद्धा । एवं रोहिणी यात्रायामविहिता, पश्चिमायां चातिशयेन निषिद्धैव । एवं शनिवारोऽपि सामान्यतो नवम्यादियोगे सुतरां निषिद्ध एव । एवं पुष्योऽपि विवाहे निषिद्धः। गुरुवारस्तूत्तम एव । अनयोर्योगस्तु वाय्वग्भिवत्सुतरां निषिद्धस्तत्कथमिदमपवादवचनं ? प्राप्तिपूर्वकत्वात्प्रतिषेधस्य - इति चेत्, उच्यते- 'हस्तक्षमर्कवारे' इत्यादिवचनाद्भौमाश्विनीत्यादेर्वारनक्षत्रयुतेः कार्यमात्रे प्रशस्ततमत्व