________________
तिथिविशेषेण हस्तार्कादिफलं ] शुभाशुभप्रकरणम् १ |
अथ विषमतिथिषु दग्धलग्नानींद्रवज्रयाहपक्षादितस्त्वोजतिथौ धटैणौ मृगेंद्रनक्रौ मिथुनांगने च । चापेन्दुभे कर्कहरी हयांत्या गोंत्यौ च नेष्टे तिथिशून्यलने ॥१७॥
पक्षादित इति ॥ शुक्लकृष्णसाधारण्येन पक्षमंगीकृत्य ओजतिथौ विषमतिथिषु प्रतिपत्तृतीयादिषु धटस्तुला एणो मकर इत्यादीनि लग्नानि क्रमेण दिनदग्धानि ज्ञेयानि । यथा - प्रतिपदि तुलामकरौ, तृतीयायां सिंहमकरौ, पंचम्यां मिथुनकन्ये, सप्तम्यां धनुः कर्को, नवम्यां कर्कसिंहौ, एकादश्यां धनुमनौ, त्रयोदश्यां वृषमीनौ; तस्यां तस्यां तिथौ एते एते लग्ने नेष्टे, अनिष्टे इत्यर्थः । उक्तं च वसिष्ठसंहितायाम् – 'मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ । पंचम्यां बुधराशी द्वौ सप्तम्यां चापचंद्रभे ॥ नवम्यां सिंहकीटाख्यावेकादश्यां गुरोर्गृहे । वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः ॥ दुग्धसद्मनि यत्कर्म कृतं सर्वं विनश्यति । तस्माद्दग्धगृहास्त्याज्याः शोभनेष्व'खिलेष्वपि ॥' इति ॥ १७ ॥
अथैषां दुष्टयोगानां शुभकृत्यावश्यकत्वे सति परिहारं नारदवचनेनैवाहनारदः
-
तिथयो मासशून्याच शून्यलग्नानि यान्यपि । मध्यदेशे विवर्ज्यानि न दूष्याणीतरेषु तु ॥ १८ ॥ पंग्धकाणलग्नानि मासशून्याश्च राशयः । गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ १९ ॥
१९
तिथय इति ॥ स्पष्टार्थमिदं पद्यद्वयम् ॥ पंग्बंधकाणाख्यानि लग्नानि विवाहप्रकरणे वक्ष्यते । मध्यदेशो वराहसंहितायामुक्तः - 'मद्वारिमेदमांडव्यशाल्वनीपोज्जिहानसंख्यानाः । मरुवत्सघोषया मुनसारस्वतमत्स्यमाध्यमिकाः ॥ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च । गौरग्रीवौ दैहिकपंचगुढाश्वत्थपांचालाः। साकेत ककुकुरुकालकोटिकुकुराश्च पारियात्रनगः । औदुंबरकापिष्ठकगजाह्वयाश्चेति मध्यमिदम् ॥' इति । जगन्मोहनेऽपि - 'केन्द्रे चैव त्रिकोणे च शुभो ह्युपचयेऽपि वा । एकोऽपि बलवांश्चापि शून्यतिथ्युडुनाशकः ॥' इति । अयं देशाचारमनुसृत्य व्यवहारः कर्तव्यः ॥ १८ ॥ १९ ॥ अथ समस्त शुभकार्येषु सिद्धिदानपि हस्तार्कादियोगांस्तिथिविशेषेणातिनिधाननुष्टुब्द्वयेनाह—
वर्जयेत्सर्वकार्येषु हस्तार्क पंचमीतिथौ ।
भौमाश्विनीं च सप्तम्यां षष्ठ्यां चंद्रदेवं तथा ॥ २० ॥