________________
मुहूर्तचिंतामणिः । [ चैत्रादिषु शून्यनक्षत्रराशयः
पूर्वाभाद्रपदाष्टम्यामेकादश्यां च रोहिणी । द्वादश्यां च यदाश्लेषा त्रयोदश्यां मघा यदि ॥' इति ॥ ११ - १३ ॥
१८
कदा
अथ चैत्रादिमासेषु क्रमाच्छून्यनक्षत्राण्यनुष्टुब्द्वयेनाह - त्वाष्ट्रवायू विश्वेज्यौ भगवासवौ । वैवश्रुती पाशिपौष्णे अजपादग्निपित्र्य ॥ १४ ॥ चित्राद्वीशौ शिवाश्रयर्काः श्रुतिले यद्रभे । चैत्रादिमासे शून्याख्यास्तारा वित्तविनाशदाः ॥ १५ ॥
कदास्रभ इति ॥ चैत्रमासे-कदास्रभे= रोहिण्यश्विन्यौ, वैशाखे-त्वाष्ट्रवायू= चित्रास्वात्यौ, ज्येष्ठमासि - विश्वेज्यौ = उत्तराषाढापुष्यौ, आषाढमासे- भगवासवौ = पूर्वाफाल्गुनी धनिष्ठे, श्रावणे - विश्वश्रुती = उत्तराषाढाश्रवणौ, भाद्रपदे - पाशिपौष्णे=पाशी वरुणः शततारकारेवत्यौ, आश्विने-अजपात् = पूर्वाभाद्रपदा, कार्तिके - अग्निपित्र्यभे= कृत्तिकामघे । अत्र 'पाशिपौष्णे अजपात्' इत्यत्र 'ईदूदेद्विवचनं प्रगृह्यम्' इति प्रगृह्यत्वात् 'लुतप्रगृह्या अचि नित्यम्' इति प्रकृतिभावेन संध्यभावः । मार्गशीर्षे - चित्राद्वीशौ = चित्राविशाखे, पौष - शिवाइव्यर्का:=आर्द्राश्विनीहस्ताः, माघे - श्रुतिमूले=श्रवणमूले, फाल्गुनमासेयमेन्द्रभे=भरणीज्येष्ठे; एतास्ताराः क्रमाच्चैत्रादिमासेषु शून्यसंज्ञा ज्ञेयाः । कीदृइयस्ताराः ? वित्तविनाशदाः, धननाशकरा इत्यर्थः । उक्तं च वसिष्ठसंहितायाम्- 'अश्विनी रोहिणी चैत्रे शून्यभे परिकीर्तिते । चित्रा स्वाती च वैशाखे ज्येष्ठे विश्वेज्यतारके ॥ भगवासवमाषाढे श्रावणे हरिविश्वभे । नभस्ये वारुणांत्यर्क्षमजपादश्वयुज्यपि ॥ कार्तिके पितृर्वह्नवृक्षे सौम्ये चित्राद्विदैवते । पौषे दस्रकरार्द्राः स्युर्माघे मूलं च विष्णुभम् ॥ तपस्ये शक्रभरणी शून्यभान्याहुरग्रजाः । एषु यत्तु कृतं कर्म धनैः सह विनश्यति ॥' इति ॥ १४ ॥ १५॥ अथ चैत्रादिमासेषु शून्यराशीननुष्टुभाह
घटो झषो गौर्मिथुनं मेषकन्यालितौलिनः ।
धनुः कर्को मृगः सिंहचैत्रादौ शून्यराशयः ॥ १६ ॥ घट इति ॥ चैत्रे - - घटः = कुम्भः, वैशाखे - झषः =मीनः, ज्येष्ठे –गौः =वृषः, आषाढे - मिथुनं श्रावणे - मेषः, भाद्रपदे - कन्या, आश्विने- अलिः = वृश्चिकः, कार्तिके-तौलिः = तुला, मार्गशीर्षे - धनुः, पौषे - कर्कः, माघे - मृगः=मकरः, फाल्गुने-सिंहः; एते राशयः क्रमेण चैत्रमासादिषु शून्यसंज्ञका इत्यर्थः । उक्तं च वसिष्ठेन - 'घटमत्स्यवृषा युग्ममेषकन्याः सवृश्चिकाः । तुलाचापकुलीराख्यमृगसिंहाश्च राशयः ॥ चैत्रादौ मासशून्याख्या वंशवित्तविनाशदाः । तस्मात्तासंपरित्यज्य शोभनं कारयेत्सुधीः ॥' इति ॥ १६ ॥
१ वह्निपित्र्य इति पाठ: .