________________
तिथिनक्षत्र संबंधिदोषाः ] शुभाशुभप्रकरणम् १ |
नेत्रे तृतीयाद्वितीये उभयपक्षगे शून्ये । माधवे वैशाखे द्वादशी तिथिः शून्या । पौषे वेदशराः चतुर्थीपंचम्यौ शून्ये । इषे आश्विने दशशिवाः दशम्येकादश्यौ शून्ये । मार्गे मार्गशीर्षेऽद्विनागाः सप्तम्यष्टम्यौ शून्ये । मधौ चैत्रे गोष्टौ नवम्यष्टम्यौ शून्ये । एषु मासेषु एतास्तिथयः पक्षद्वयगाः शून्या बुधैः कीर्तिताः । अथानुक्तमासानामूर्जाषाढतपस्यशुक्रतपसां कार्तिकाषाढफाल्गुन ज्येष्ठमाघानां कृष्णपक्षे क्रमेण शरांगाब्धयः शकाः पंच तिथयः शून्याख्याः । यथा कार्तिककृष्णपक्षे पंचमी शून्या, आषाढकृष्णपक्षे षष्टी शून्या, फाल्गुन कृष्णपक्षे चतुर्थी शून्या, ज्येष्टकृष्णपक्षे चतुर्दशी शून्या, माघकृष्णपक्षे पंचमी शून्या । अथैषामेव मासानां सिते शुक्लपक्षे शक्राद्यग्निविश्वरसाः क्रमाच्छून्याः । यथाकार्तिक शुक्लपक्षे चतुर्दशी शून्या, आषाढशुक्ले सप्तमी शून्या, फाल्गुनशुक्ले तृतीया शून्या, ज्येष्ठशुक्ले त्रयोदशी शून्या, माघशुक्ले षष्ठी शून्येत्यर्थः । यदाह वसिष्ठः - ' अष्टमी नवमी चैत्रे पक्षयोरुभयोरपि । माधवे द्वादशी त्याज्या पक्षयोरुभयोरपि ॥ ज्येष्ठे त्रयोदशी निंद्या सिते कृष्णे चतुर्दशी | आषाढे कृष्णपक्षस्य षष्ठी शुक्ले तु सप्तमी ॥ द्वितीया च तृतीया च श्रावणे सितकृष्णयोः । प्रथमा च द्वितीया च नभस्ये मासि निंदिते ॥ दशम्येकादशी निंद्या मासीषे शुक्लकृष्णयोः । ऊर्जे चतुर्दशी शुक्ले कृष्णपक्षे तु पंचमी ॥ सप्तमी चाष्टमी सौम्ये पक्षयोरुभयोरपि । पौषे पक्षद्वये चैव चतुर्थी पंचमी तथा ॥ माघे तु पंचमी षष्ठी कृष्णे शुक्ले यथाक्रमम् । तृतीया च चतुर्थी च फाल्गुने सितकृष्णयोः ॥ तिथयो मासशून्याख्या वंशवित्तविनाशदाः । आसु श्राद्धं प्रकुर्वीत नैव मंगलमाचरेत् ॥' इति ॥ १० ॥
I
अथ तिथिनक्षत्रसंबंधिदोषान् सार्धानुष्टुब्द्वयेनाह -
तथा निंद्यं शुभे सार्प द्वादश्यां वैश्वमादिमे ॥ ११ ॥ अनुराधा द्वितीयायां पंचम्यां पित्र्यभं तथा । व्युत्तराश्व तृतीयायामेकादश्यां च रोहिणी ॥ १२ ॥ स्वातीचित्रे त्रयोदश्यां सप्तम्यां हस्तराक्षसे । नवम्यां कृत्तिकाष्टम्यां पूभा षष्ठयां च रोहिणी ॥ १३ ॥
१७
तथा निंद्यमिति ॥ शुभे कृत्ये द्वादश्यां सार्पमाश्लेषा निंद्यं, आदिमे तिथौ प्रतिपदि वैश्वमुत्तराषाढा निंद्या, द्वितीयायामनुराधा, पंचम्यां पितृभं मघा, तृतीयायां त्र्युत्तराः उत्तराफल्गुन्युत्तराषाढोत्तराभाद्रपदा निंद्याः, एकादश्यां रोहिणी, त्रयोदश्यां स्वातीचित्रे, सप्तम्यां हस्तराक्षसे हस्तमूले, नवम्यां कृत्तिका, अष्टम्यां पूभा पूर्वाभाद्रपदेत्यर्थः । षष्ठ्यां रोहिणी - निंद्येत्यर्थः । यदाह चतुर्भुजमिश्रनिबंधे लल्लः - 'द्वितीयया चानुराधा त्र्युत्तराश्च तृतीयया । पंचमी च मघायुक्ता चित्रास्वात्या त्रयोदशी ॥ एषु कार्यं कृतं चेत्स्यात् षण्मासान्मरणं ध्रुवम् । प्रतिपद्युत्तराषाढा नवम्यां कृत्तिका यदि ॥
।