________________
मुहूर्तचिंतामणिः। [चैत्रादिषु शून्यतिथयः अंगानि-षष्ठी, सप्त-सप्तमी,उरगा अष्टमी,गावः नवमी, दिशः दशमी, ईशा एकादशी; एतास्तिथयो रविवारादिषु हुताशनाख्या ज्ञेयाः। यथा-रवौ द्वादशी, सोमे षष्ठी, भौमे सप्तमी, बुधेऽष्टमी, गुरौ नवमी, शुक्रे दशमी, शनौ एकादशी हुताशना । यथा हुताशनो निक्षिप्तं वस्तु दहति तथायमुक्तो वारतिथियोगोऽपीत्यर्थः । यदाह गुरुः-'षष्ट्यादितिथयः सप्त चंद्रवारादिभिर्युताः । क्रमात् पक्षद्वयेऽपि स्युः सप्तयोगा हुताशनाः ॥' इति । वसिष्ठोऽपि-'सप्त पथ्यादितिथयः सोमवारादिभिर्युताः । अग्निजिह्वाः सप्त योगा मंगले कुलना. शनाः ॥' इति। अथ यमघंट:-मघा, विशाखा, शिवः आर्द्रा, मूलं, वह्निःकृत्तिका । समाहारद्वंद्वः। ब्राह्म-रोहिणी, करः हस्तः; एतानि नक्षत्राण्यात्सूर्यादिवारेषु यमघंटाः स्युः । यथा-रवी मघा यमघंटः, सोमे विशाखा, भौमे आर्द्रा, बुधे मूलं, गुरौ कृत्तिका, शुक्रे रोहिणी, शनौ हस्तः । उक्तं च दैवज्ञमनोहरे गर्गेण-'मघा विशाखा चार्द्रा च मूलमृक्षं च कृत्तिका । रोहिणी हस्त इत्येवं यमघंटाः क्रमाद्रवेः ॥' इति । अत्र पाठांतरम् । 'सूर्यादिबारे तिथयो हि पित्र्यद्वीशेशमूलाग्निविरिंचिहस्ताः । भवंति सूर्याघमघंटकाच शुभे विवा गमने त्ववश्यम् ॥' इति । अयं पाठः साधीयान् । प्राक्पाठे हि कतिचिन्नक्षत्राणि पूर्वार्धे द्वे तूत्तरार्ध इत्यसामंजस्यात् । एते दग्धादियोगाः शुभे शुभकार्ये विवास्त्याज्याः । तुर्विशेषे । गमने यात्रायां त्ववश्यं वाः । यदाह मार्तड:-'नात्र यात्रा प्रकर्तव्या कार्यातरमथापि वा । यमघंटादियोगोऽयमनहः सर्वकर्मसु॥' इति । आवश्यकत्वे यमघंटपरिहारमाह गर्ग:'विंध्यस्योत्तरभागे तुयावदातुहिनाचलम् । यमघंटकदोषोऽस्ति नान्यदेशे कदा. चन ॥' इति । अन्यच्च-'लग्नाच्छुभग्रहः केंद्रे त्रिकोणे वा स्थितो यदि । चंद्रो बापि न दोषः स्याद्यमघंटकसंभवः ॥' इति । कैश्चिदष्टौ घटिकास्त्याज्या इत्युकम् । तदुक्तं दीपिकायाम्-'यमघंटे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः' इति । अत्रैषां पापयोगानामपवादो वसिष्ठेनोक्तः-'दिवा मृत्युप्रदाः पापा दोषास्त्वेते न रात्रिषु । शुभकार्ये प्रसूतौ च सर्वदा परिवर्जयेत् ॥ ८ ॥ ९ ॥ अथ चैत्रादिमासे शून्यास्तिथीः शार्दूलविक्रीडितेनानुष्टुप्पूर्वार्धेन चाहभाद्रे चंद्रदृशौ नभस्यनलनेत्रे माधवे द्वादशी
पौषे वेदशरा इषे दशशिवा मार्गेऽद्रिनागा मधौ । गोष्टौ चोभयपक्षगाश्च तिथयः शून्या बुधैः कीर्तिता .. ऊजोषाढतपस्यशुक्रतपसां कृष्णे शरांगाब्धयः ॥१०॥
शक्राः पंच सिते शक्रायग्निविश्वरसाः क्रमात् । * भाद्र इति ॥ भाद्रशब्देन भाद्रपद उच्यते । 'स्युर्नभस्यप्रौष्ठपदभादभाद्रपदाः समाः' इत्यमरः । भाद्रे भाद्रपदे मास्युभयपक्षगे शुक्लकृष्णसाधारणे चंद्रदृशौ प्रतिपद्वितीये तिथी शून्ये । तथा नभसि श्रावणे मासि अनल