________________
विष-हुताशनयोगाः] शुभाशुभप्रकरणम् १ ।
१५ निषेधे दीपिकाटीकायां स एव भट्टभास्करः-'सप्तम्यचन्द्रानवमीषु देहश्रीसंततीरामलकर्नरस्य । स्नानं निहंत्यन्यदिने तु धत्ते तिलैः श्रियं पुण्यकरं सदैव ॥' इत्याह स्म । अपरे पुनराहुः-सर्वास्वपि तिथिष्वामलकस्नानस्यैव निषेधो नाभ्यंगस्य । यदाह वसिष्ठः-'कामदुर्गातकविधिनष्टेद्वदिनेषु च । सकृदामलकस्नानं संपत्पुत्रविनाशनम् ॥' कामः त्रयोदशी, दुर्गा-नवमी, अन्तकः दशमी, विधिः द्वितीया, नप्टेंदुः=अमावास्या, अर्कदिनं सप्तमी । कश्यपोऽपि-'षष्ट्यां दर्शप्रतिपदि द्वादश्यां च दिनक्षये । कुर्यादामलकस्नानं दशम्यां मूढधीनरः ॥ पुत्रनाशो भवेत्तस्य त्रयोदश्यां धनक्षयः । संपत्पुत्रक्षयस्तस्य द्वितीयायामसंशयम् ॥ सप्तम्यां च नवम्यां च अमायां कुलनाशनम्' इति । दर्शानन्तरं प्रतिपद्दर्शप्रतिपच्छुक्ल प्रतिपदित्यर्थः ॥ ७ ॥
अथ सूर्यादिवारेपु दग्धादियोगचतुष्टयमिंद्रवज्रोपजातिकाभ्यामाहसूर्येशपंचाग्निरसाष्टनंदा वेदांगसप्ताश्विगजांकशैलाः । सूर्यागसप्तोरगगोदिगीशा दग्धा विषाख्याश्च हुताशनाथ ॥८॥ सूर्यादिवारे तिथयो भवंति मघाविशाखाशिवमूलवह्नि । ब्राह्मं करोर्काद्यमघंटकाश्च शुभे विवा गमने त्ववश्यम् ॥९॥
सूर्ये शेति ॥सूर्या द्वादश । लक्षणया तत्संख्या द्वादश्युच्यते । एवमीशादिशब्देष्वपि व्याख्येयम् । तत्र सूर्या-द्वादशी, ईशा एकादशी, पञ्च-पञ्चमी, अग्नयः तृतीया, रसाः षष्टी, अष्ट अष्टमी, नन्दा-नवमी; सूर्यादिवारे. ज्वेतास्तिथयो दग्धा भवंति । यथा-रवौ द्वादशी दग्धा, सोमे एकादशी दग्धा, भौमे पञ्चमी, बुधे तृतीया, गुरौ षष्ठी, शुक्रे अष्टमी, नवमी शनी; शनिरिक्तासिद्धियोगश्चतुर्थीचतुर्दश्योश्चरितार्थः। उक्तं चनारदेनोपग्रहाध्याये'एकादशी चेन्दुवारे द्वादशी चार्कवासरे । षष्ठी बृहस्पतेर्वारे तृतीया बुध. वासरे ॥ अष्टमी शुक्रवारे च नवमी शनिवासरे। पञ्चमी भौमवारे च दग्ध. योगाः प्रकीर्तिताः ॥' वसिष्टोऽपि-द्वादश्येकादशीनागगौरीस्कन्दवसुष्वपि । नवम्यां दग्धयोगाख्या भानुवारादितः क्रमात् ॥' अथ विषयोगाः। वेदा इति । वेदाः चतुर्थी, अंगानि-षष्ठी, सप्त-सप्तमी, अश्विनौ द्वितीया, गजा= अष्टमी, अंका-नवमी, शैलाः सप्तमी; एतास्तिथयः सूर्यादिवारेषु विषाख्या भवंति । यथा-रवौ चतुर्थी विषाख्या, चन्द्रे षष्ठी, भौमे सप्तमी, बुधे द्वितीया। बुधे भद्रारूपः सिद्धियोगस्तु सप्तमीद्वादश्योश्चरितार्थः । गुरावष्टमी, शुक्रे नवमी, शनी सप्तमी । यदाह बृहस्पतिः-'षष्ठी शशांके नवमी च शुक्रे बुधे द्वितीया तपने चतुर्थी । जीवेऽष्टमी सौरिकुजेऽह्नि सप्तमी योगा विषाख्याः कुलनाशनाः स्युः ॥' वसिष्ठोऽपि-'कुजायोः सप्तमी षष्ठी चन्द्रे भानौ चतु र्थिका । द्वितीया शेऽष्टमी जीवे नवमी शुक्रवासरे ॥ अचिकित्स्या गदा योगा मंगलेष्वतिनिंदिताः ॥' अथ हुताशनयोगाः । सूर्येति । सूर्या-द्वादशी,