________________
१४
मुहूर्तचिंतामणिः। [कृत्यविशेषेषु निषिद्धतिथयः नाभ्यंजनं विश्वदशद्विके तिथौ धात्रीफलैः स्नानममाद्रिगोष्वसत्
षष्ठ्यष्टमीत्यादि ॥ षष्ठी, अष्टमी च प्रसिद्धा, भूतः चतुर्दशी, विधुक्षयः= अमावास्या, एतासु तिथिषु क्रमेण ना पुरुषः, नृशब्दो मनुष्यजात्युपलक्षकः, तेन स्त्रीणामप्ययं निषेधः; तैलं पलं मांसं क्षुरं रतं मैथुनं यथाक्रमं न सेवेत । यथा-पट्यां तैलं, अष्टम्यां मांस, चतुर्दश्यां क्षौरम् , अमावास्यायां मैथुनं नो सेवेतेत्यर्थः । 'षे सेवने' आत्मनेपदी । उक्तं च नारदेन-'षष्ट्यां तैलं तथाष्टम्यां मांसं क्षौरं तिथौ कलेः । पूर्णिमादर्शयो रीसेवनं परिवर्जयेत् ॥' इति । कलेस्तिथौ चतुर्दश्याम् । रत्नमालायां च-'षष्ठीषु तैलं पलमष्टमीषु क्षौरक्रिया चैव चतुर्दशीषु । स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थ मुनयो वदंति ॥' अत्र वचने 'नष्टकलासु'इति वचनमाश्रित्य 'विधुक्षयेषु'इत्युक्तम् । वयं तु विधुक्षयशब्दः सर्वपर्वोपलक्षक इति व्याकुर्मः । तथा सति पंचपर्वसु मैथुनं न कार्यमित्यर्थः । उक्तं च वसिष्ठसंहितायाम्-'स्त्रीसेवनं पर्वसु पक्षमध्ये पलं च षष्ठीषु च सर्वतैलम् । नृणां विनाशाय चतुर्दशीषु क्षुरक्रिया स्थादसकृत्तदाशु ॥' इति । पक्षमध्ये अष्टम्यां । क्वचित्संक्रांत्यादावपि तैलसंगो निषिद्धः । यदाह नारद:-'व्यतीपाते च संक्रांतावेकादश्यां च पर्वसु । मर्कभौमदिने विष्टयां नाभ्यंगं न च वैधतौ ॥' इति । पर्वाणि तु वसिष्ठनोक्तानि-'चतुर्दश्यष्टमी कृष्णा त्वमावास्या च पूर्णिमा । पुण्यानि पञ्च पर्वाणि संक्रांतिर्दिनपस्य च ॥' इति । अत्र निषिद्धकर्मसु तात्कालिक्यस्तिथयो ग्राह्याः । तथा च स्मृतिः-नाने चाभ्यंजने चैव दन्तधावनमैथुने । तिथिस्तात्कालिकी ग्राह्या तथा मरणजन्मनोः ॥' इति । अथ विश्वदशद्विके तिथौ त्रयोदशीदशमीद्वितीयास्वभ्यंजनं न, तैलाभ्यंगो न कार्य इत्यर्थः । तदुक्तं रत्नमालायाम्-'स्नातुर्जनस्य दशमी तनयांस्त्रयोदश्यर्थ निहंत्युभयमेतदपि द्वितीया' इति । अयं च शरीरमलनिराकरणार्थ निषेधो नित्यनैमित्तिककाम्यव्यतिरिक्तविषयः । निर्णयामृते द्वितीयातिथिनिर्णये भट्टभास्कर इत्युक्त्वा पठितम्-'सातुस्तनूजान् दशमी त्रयोदश्यर्थं द्वितीया द्वितयं निहति । मलापहनाननिषेध एष न नित्यनैमित्तिककाम्यबाधः ॥' एतादृशोऽपि मलापहनाननिषेधो ब्राह्मणव्यतिरिक्तवर्णत्रयस्यैव । उक्तं च भट्टभास्करण'त्रयोदश्यां द्वितीयायां दशम्यां च विशेषतः । शूद्रविदक्षत्रियाः स्नानं नाचरेयुः कथंचन ॥' इति । अर्थात् ब्राह्मणस्य नायं निषेध इत्यर्थः । अथ धात्रीफलैरिति । धात्रीफलैरामलकैः स्नानममाऽदिगोष्वसत् , अमावास्यासप्तमीनवमीष्वसन्निषिद्धमित्यर्थः । उक्तं च रत्नमालायाम्-'सप्तम्यनिंदुनवमीषु च संपदिच्छुः स्नायात्कदाचिदपि नामलकैर्मनुष्यः' । अत्र केचिदामलकैः स्नातुर्दशमी तनयान्निहंति एवं सर्वत्र व्याख्येयम् । एवं सति दशमीद्वितीयात्रयोदशीसप्तम्यनिंदुनवमीष्वामलकस्नाननिषेधोऽस्ति, तत्कथं भिन्नवाक्यतामादाय स्वपये स्पष्टैव भिन्नवाक्यता कृता? अत्राहुः-'स्नातुस्तनूजान् दशमी'इति वचनांतरानुरोधाद्भिन्नवाक्यता स्पष्टैव । तथा च-आमलकस्नान१ पक्षसर्वपापलक्षक इति पाठः ।