________________
द्या योगतिथयः ]
शुभाशुभप्रकरणम् १ |
1
मृता अमृतफलदा स्यात् । यथा - नंदा स्वावमृता, एवं सोमवारादिष्वपि व्याख्येयं पूर्ववत् । अत्र संमतिरूपे जीर्णपुस्तकस्थनारदवाक्ये—' शनौ पूर्णामृताह्वया' इत्यकारादिराकारांतः पाठः साधीयान् । अमृतेत्याह्वयं नाम यस्याः सा अमृताह्वयेत्यर्थः । इममर्थं सफलमाह वसिष्ठः - 'नंदा भौमायोद्रा शुद्वोश्च जया बुधे । शुभयोगा गुरौ रिक्ता शनौ पूर्णाऽमृताह्वया ॥' इति । इदं वचनं वसिष्ठेन गुणनिरूपणाध्याये निरूपितमित्यतोऽपि शुभत्वप्रतिपादकम् । कश्यपोऽपि तथैवाह - 'आदित्यभामयोर्नन्दा भद्रा शुक्रशशांकयोः । जया सौम्ये गुरौ रिक्ता पूर्णाssर्कावमृता शुभा ॥' इति । आक= शनौ । एवं सत्यपि शुभत्वे शिष्टाचारेण व्यवस्था ज्ञेया । अथोत्तरार्धेन निंद्यनक्षत्राण्युच्यन्ते – याम्यमिति । रविवारादिषु याम्यं भरणी तदादीनि नक्षत्राणि यथाक्रमं दग्धनक्षत्राणि स्युः । यथा - रवौ भरणी दग्धा, सोमे चित्रा, भौमे उत्तराषाढा, बुधे धनिष्ठा, गुरावुत्तराफल्गुनी, शुक्रे ज्येष्ठा, रानौ रेवती । यदाह नारदः - 'यमर्क्षमर्कवारेऽब्जे चित्रा भौमे तु विश्वभम् । बुभे श्रविष्ठार्यम्णक्ष गुरौ ज्येष्ठा भृगोर्दिने ॥ रेवती शनिवारे तु दग्धयोगा भवंत्यमी ॥' इति । लल्लुः - ' याम्यं चित्रोत्तराषाढा धनिष्ठोत्तरफाल्गुनी । ज्येष्ठा व रेवती चैव जन्मक्षं भानुतः क्रमात् ॥ जन्मर्क्षग्रहसंयोगे न कुर्याच्छोभनं नरः । पाणिग्रहणयात्रादि विनाशमुपयात्यतः ॥ ' इति ॥ ५ ॥
अथ कचादिनिंद्ययोगाननुष्टुभाह
षष्ठ्यादितिथयो मंदाद्विलोमं प्रतिपद् बुधे । सप्तम्यर्केऽधमाः षष्ट्याद्यामाश्च रदधावने ॥ ६ ॥
१३
षष्ट्यादीति ॥ षष्ठीसप्तम्यष्टमीनवमीदशम्येकादशीद्वादश्यस्तिथयो मंदाच्छनैश्चराद्विलोमं विपरीतवारगणनयाऽधमाः स्युः । यथा - शनौ षष्ठ्यधमा, शुक्रे सप्तमी, गुरावष्टमी, बुधे नवमी, भौमे दशमी, सोमे एकादशी, खौ द्वादशी; एते योगाः क्रकचाख्या ज्ञेयाः । यदाह नारदः - ' त्रयोदश स्युर्मिलने संख्यायास्तिथिवारयोः । क्रकचो नाम योगोऽयं मंगलेष्वतिगर्हितः ॥' इति । अथ
प्रतिपत्तिथिस्तथा सूर्यवारे सप्तमी संवर्तयोगाख्याऽधमा । उक्तं च नारदेन - 'सप्तम्यामर्कवारश्चेत् प्रतिपत्सौम्यवास रे । संवर्तयोगो विज्ञेयः शुभकर्मवि'नाशकृत् ॥' इति । अथ षष्ठी, आद्या=प्रतिपत्, अमा-अमावास्या, एतास्तिथयो दधावने निंबकाष्ठादिभिर्दतमलनिराकरणेऽधमा निषिद्धाः स्युः । उक्तं च रत्नमालायाम् -'नष्टेंदुषष्ठीप्रतिपत्सु धीमान्न जातु दंतोत्कषणं विदध्यात् । कुर्वनवामति तदाशु नूनं लक्ष्मीकुलज्ञातिजनोपघातम् ॥' इति । क्वचिन्नवमी रविवासरेऽपि निषिद्धा । उक्तं च काशीखंडे पंचत्रिंशाध्याये - 'प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे । दन्तानां काष्टसंयोगो दहेदासप्तमं कुलम् ॥' इति ॥ ६ ॥ अथ कृत्यविशेषेषु निषिद्धतिथीनिंद्रवंशाछंदसाह - षष्यष्टमीभूतविधुक्षयेषु नो सेवेत ना तैलपले क्षुरं रतम् ।
२ मु० चि०