________________
१२
..' मुहूर्तचिंतामणिः। [वारेषु निषिद्ध तिथिनक्षत्राणि ब्येकयोरिति पदे संख्याधाचिनोधैकशब्दयोद्वे बहुवचनप्रसंगः, अतो भावप्रधानो निर्देश इत्यभियुक्तस्मरणात् बहुधा काव्येषु दृष्टत्वाचाशुभमध्यशस्ता इत्येवमादीनां शब्दानां भावप्रधानत्वादशुभत्वमध्यत्वशस्तत्वाभिधानात्तादृशानां शब्दानां द्वंद्व विधायाशुभमध्यशस्तानि विद्यते यासां ता इति बहुव्रीहिणा सिद्धमिष्टम् । बहुव्रीहिणा गतार्थत्वान्मतुन्न भवति, "उक्तार्थानामप्रयोगः' इत्युक्तेः । अथवा 'तुण्यतु दुर्जनः' इति न्यायमाश्रित्य मतुपो बाधकः 'अर्शआदिभ्योऽच्' इत्यर्शआदेराकृतिगणत्वान्मत्वर्थेऽच् कार्यः। एतच्च समाधानं शस्तसमाधमा इत्यत्रापि द्रष्टव्यम् । एवं च सति 'कृष्णे भवंत्युत्तममध्यहीनाः' इत्यपि सिद्धम् । अत एव नैषधीये सप्तमसर्गे'येयं भवद्भाविपुरंध्रिसृष्टिः' इति प्रयुक्तम् । द्रुतमध्यविलंबितासु वृत्तिषु' इति महाभाष्यकारो जगाद । अतोऽनेनैवाशयेन-'उभयेऽधममध्यमपूजिता द्रेष्काणैश्चरभेषु चोत्क्रमात् । अशुभेष्टसमाः स्थिरे क्रमादोरायाः परिकल्पिता दश ॥' इति वराहमिहिरोऽपि प्रायुक्त । तथा-'सूर्यसूनुदिवसे स्थिरप्रदम्' इति बसिष्ठोऽपि प्रायुंक्त । स्थिरप्रदमित्यत्र स्थैर्यप्रदमित्यर्थो विवक्षित इत्यलमतिप्रसंगेन ॥ अथ चतुर्थचरणेन. सिद्धियोगानाह-सितेति । ताः कृतसंज्ञा नंदादितिथ्यः शुक्रबुधमंगलशनिगुरुवारेषु सिद्धाः सिद्धिकराः स्युः । यथा-नंदा शुक्रे सिद्धियोगः, एवं भद्रा बुधे, जया भौमे, रिक्ता शनौ, पूर्णा गुरौ । यदाह कश्यपः-'नंदा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया । रिक्ता मंदे गुरोर्वारे पूर्णा सिद्धाह्वया तिथिः ॥' इति । वसिष्ठोऽपि-'शुक्रज्ञगुरुमंदेज्या वारा नंदादिषु क्रमात् । सिद्धा तिथिः सिद्धिदा स्यात्सर्वकार्येषु सर्वदा ॥' इति । अस्याः फलस्तुतिमाह वसिष्ठ एव-'सिद्धा तिथिहंति समस्तदोषान् यान्मासशून्यानपि मासदग्धान् । दिनप्रदग्धानपि चान्यदोषानेकादशी यद्वदशेषपापान् ॥' इति ॥ ४ ॥ __ अथ रव्यादिवारेषु यथाक्रमं निषिद्धतिथीनिषिद्धनक्षत्राणि च शालिन्याहनंदा भद्रा नंदिकाख्या जया च रिक्ता भद्रा चैव पूर्णा मृतार्कात् । याम्यं त्वाष्ट्र वैश्वदेवं धनिष्ठार्यम्णं ज्येष्ठांत्यं रवेर्दग्धभं स्यात् ॥५॥
नंदेति ॥ यथाक्रममर्कात् 'ल्यब्लोपे पंचमी' इति अर्कमारभ्य वारेषु नंदातिथिर्मृताधमफला स्यात् । यथा सूर्य नंदा मृता, तथा सोमे भद्रा, भौमे नंदा, बुधे जया, गुरौ रिक्ता, शुक्रे भद्रा, शनौ पूर्णा मृतेत्यर्थः ॥ उक्तं च नारदेन-'आदित्यभौमयोनंदा भद्रा शुक्रशशांकयोः । जया सौम्ये गुरौ रिक्ता शनौ पूर्णा मृतिप्रदा ॥' इति । अत्र बहुषु नारदसंहितापुस्तकेषु 'मृतिप्रद' इति पाठमाश्रित्य मृतेति पदं प्रायोजि ग्रंथकृता । तथैवास्माभि
ाकृतं च सकलदेशीयशिष्टसंमतत्वादापामरं तथैव व्यवहारदर्शनाच्च । वस्तुतस्तु 'पूर्णा मृतार्कात्'इत्यत्र अकारं प्रश्लिष्य अमृतेति पदं विधेयम् । तत्रा