________________
तिथीनां सफला नंदादिसंज्ञाः] शुभाशुभप्रकरणम् १ । मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिरागृशं तत् ॥ १४ ॥' इति । ननु रत्नमालादिग्रंथेष्वादौ संवत्सरप्रकरणमुक्तम् । तदत्र किमित्युत्प्रेक्षितमिति चेत् । उच्यते,-मुहूर्तचिंतामणिरिति नामधेयान्मुहूर्ता एवात्रोच्यते। ते तु प्रतिक्षणविचारार्हाः, तत्र संवत्सराणां वर्षव्यापित्वात् सदसत्फलोक्तावपि विवाहादिकृत्यानि भवत्येव । कुतः सिंहराशिस्थितगुरु-गुरुशुक्रास्तादिष्विव विवाहादिविशेषकृत्यानां प्रतिषेधसत्त्वं, तथा संवत्सरसदसत्फलेषु नेति । किंच सिंहगतगुरौ शुक्रास्तादावपि नित्यानां वस्त्रपरिधानादीनां नैमित्तिकानां च पुंसवनजातकर्मनामकर्मान्नप्राशनादिकर्मणां विहितत्वान्मुहूर्तविचारोऽस्त्येवेत्यतोऽकथनं संवत्सरप्रकरणस्य । अमुमेवाशयं मनस्यभिसंधाय मुहूर्तग्रंथं परित्यज्य स्थलांतरे गुरुचारे वसिष्ठेन फलमुक्तम् ॥३॥
अथ तिथीनां नंदादिसंज्ञाः सफला उपजातिकयाहनंदा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः। सितेऽसिते शस्तसमाधमाः स्युः सितज्ञभौमार्किगुरौ च सिद्धाः ४
नंदा चेति॥नंदाभद्राजयारिक्तापूर्णासंज्ञाः प्रतिपदादिपंचतिथयः स्वनामसदृशफलदाः स्युरित्येवंप्रकारेण सर्वाः षष्ठ्यादय एकादश्यादयश्च तिथयो ज्ञेयाः । ताः सिते शुक्लपक्षे अशुभमध्यशुभफलदाः स्युः । असिते कृष्णपक्षे शुभमध्यमाधमफलदाः स्युः । यदाह नारदः-'नंदाभदाजयारिक्तापूर्णाः स्युम्तिथयः पुनः । पर्यायत्वेन विज्ञेया नेष्टमध्येष्टदाः सिते ॥ कृष्णपक्षेऽपीटमध्यनेष्टदाः क्रमशः स्मृताः' इति । अनिष्टमिति वक्तव्ये नेष्ट इति प्रयोगो निषेधवाचकं न-शब्दमाश्रित्य नैकधेत्यादिवत् साध्यः । अथ मूले 'अशुभमध्यशस्ताः' इति कथं प्रयोगः? यावता 'तिथयो द्वयोः' इत्यभिधानात् स्त्रीपुंसयोरस्ति तिथिशब्दः, तथापि तिथ्य इति 'कृदिकारादक्तिनः' इति कृतङीषस्तिथीशब्दस्य स्त्रीलिंग एव वृत्तिः । ततस्तिथ्य इति बहुवचनान्तस्याशुभमध्यशम्ता इति विशेषणे अशुभाश्च मध्याश्च शस्ताश्चेति द्वंद्वे 'स्त्रियाः पुंवत्' इति वा 'पुंवत् कर्मधारयजातीय-' इति वा समानाधिकरणोत्तरपदाभावात्पुंवद्भावाभावे चिंत्यताप्रसक्तेः । एवं चेत् कथं तर्हि रत्नमालायां 'कनिष्ठमध्येष्टफलाश्च शुक्ले' इति ? यावता कनिष्ठाश्च मध्याश्चेष्ट फलाश्चेति द्वंद्वोऽपि । 'नंदा च भद्रा च जया च रिक्ता पूर्णति सर्वास्तिथयः क्रमात्स्युः' इति सर्वापदविशेषणसामर्थ्यात्स्त्रीलिंग एवेत्युक्तदोषप्रसंगः । मैवं वोचः । नात्र द्वंद्वः । किं तर्हि ? कनिष्टं च मध्यं चेष्टं च कनिष्ठमध्येष्टानि, तादृशानि फलानि यासां ता इति द्वंद्वगर्भबहुव्रीह्याश्रयणादुक्तदोषाप्रसंगः । ननु यद्यप्येवमत्र समाहितं तथापि–'कृष्णे भवंत्युत्तममध्यहीनाः' इति चतुर्थचरणे कथं समाधिः ? यतः फलपदाश्रवणाद्वंद्वगर्भबहुव्रीह्यभावाच्छुद्धो द्वंद्व एव समासः । सर्वापदसमभिव्याहृतस्तिथिशब्दोऽपि स्त्रीलिंग एवेत्युक्तो दोषो वज्रायितः । उच्यते--यथा 'येकयोर्द्विवचनैकवचने' इति पाणिनिसूत्रस्थे