________________
“मुहूर्तचिंतामणिः । [तिथिकृत्यनिर्णयः तदाह वसिष्ठः-'वह्निर्विधाताऽद्रिसुता गणेशः सर्पो विशाखो दिनपो महेशः । दुर्गा यमो विश्वहरी च कामः शर्वो निशेशश्च पुराणदृष्टाः ॥' इति । स्वामिन इति शेषः । प्रयोजनं तु तत्तद्देवताप्रतिष्ठापूजादि । तथा च वराहसंहितायामुक्तम्-'यत्कार्य नक्षत्रे तदैवत्यासु तिथिषु तत्कार्यम् । करणमुहूर्तेष्वपि तसिद्धिकरं देवतानां च ॥' इति । नारदोऽप्याह'यदिनं यस्य देवस्य तद्दिने तस्य संस्थितिः ।' अग्निपुराणेऽपि'प्रतिपद्यग्निपूजा स्याद्वितीयायां च वेधसः । दशम्यामंतकस्यापि षष्ट्यां पूजा गुहस्य च ॥ चतुर्थां गणनाथस्य गौर्यास्तत्पूर्ववासरे। सरस्वत्या नवम्यां च सप्तम्यां भास्करस्य च ॥ अष्टम्यां च चतुर्दश्यामेकादश्यां शिवस्य च । द्वादश्यां च त्रयोदश्यां हरेश्च मदनस्य च ॥ शेषादीनां फणीशानां पंचम्यां पूजन भवेत् । पर्वणींदोस्तिथिष्वासु पक्षद्वयगतास्वपि ॥' इति । रत्नमालायामपि'अथामरस्थापनमुत्तरायणे स्वदेववारéतिथिक्षणादिषु' इति । अथ प्रत्येक तिथिकृत्यानि ग्रंथकृदनुक्तान्यप्यस्माभिलिख्यते लोकोपयोगित्वात् । तान्याह वसिष्ठः-'नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म । गृहप्रवे. शाखिलमंगलाचं कार्य हि मासाचतिथी कदाचित् ॥१॥' मासाद्यतिथौ-शुक्लन पक्षप्रतिपदि । अत एव कृष्णपक्षप्रतिपद्येतानि कर्माणि सुखेन भवन्तीत्यर्थः । यद्येषोऽमिप्रायोऽसंमतः स्यात्तदा पक्षाद्यतिथाविति ब्रूयात् । 'सप्तांगचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिलमंगलानि । यात्राविवाहाखिलभूषणाचं कार्य द्वितीयादिवसे सदैव ॥२॥ संगीतविद्याखिलशिल्पकर्मसीमन्तचौलानगृहप्रवेशम् । कार्य द्वितीयादिवसे यदुक्तं सदा तृतीयादिवसेऽपि कार्यम् ॥३॥ रिक्तासु विद्विड्वधबन्धशस्त्रविषाग्निघातादि च याति सिद्धिम् । यन्मंगलं तासु कृतं च मूविना. शमायाति तदाशु नूनम् ॥ ४ ॥' रिक्तासु-चतुर्थीनवमीचतुर्दशीषु । 'शुभानि कार्याणि चरस्थिराणि चोक्तान्यनुक्तान्यपि यानि तानि । सिद्धिं प्रयांत्याशु ऋणप्रदानं विना सदा नागतिथौ विधेयम् ॥ ५॥ अभ्यंगयात्रा पितृकर्म दन्तकाष्ठं विना पौष्टिकमंगलानि । षष्ठ्यां विधेयानि रणोपयोग्यशिल्पानि वास्त्वंबरभूषणानि ॥ ६ ॥ द्वितीयायां तृतीयायां पंचम्यां कथितान्यपि । तानि सिध्यति कार्याणि सप्तम्यां निखिलान्यपि ॥७॥ संग्रामयोग्याखिलवास्तुशिल्पनृत्यप्रमोदाखिललेखनानि । स्त्रीरत्नकार्याखिलभूषणानि कार्याणि कार्याणि महेशतिथ्याम् ॥ ८॥ द्वितीयायां तृतीयायां पंचम्यां सप्तमीतिथौ । उक्तानि यानि सिध्यंति दशम्यां तानि सर्वदा ॥९॥ व्रतोपवासाखिलधर्मकृत्यं सुरोत्सवाद्याखि• लवास्तुकर्म । संग्रामयोग्याखिलवास्तुकर्म विश्वेतिथौ सिध्यति शिल्पकर्म ॥१०॥ पृथिव्यां यानि कर्माणि धर्मपुष्टिशुभानि च । चरस्थिराणि द्वादश्यां यात्राऽब्रग्रहणं विना ॥११॥ विधातृगौरीभुजगभान्वन्तकदिनेषु च । उक्तानि तानि सिध्यति त्रयोदश्यां विशेषतः ॥ १२ ॥ यज्ञक्रियापौष्टिकमंगलानि संग्रामयोग्याखिलवास्तुकर्म । उद्वाहशिल्पाखिलभूषणाचं कार्य प्रतिष्ठा खलु पौर्णमास्थाम् ॥ १३ ॥ सदैव दशैं पितृकर्म मुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् ।