________________
तिथिस्वामिविचारः] शुभाशुभप्रकरणम् १ । सूर्यचंद्रयोर्ग्रहणं जगतीतले आबालवृद्धेभ्यो महान् प्रत्ययः। उक्तं च--'अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् । प्रत्यक्षं ज्योतिष शास्त्रं चंद्राकौं यत्र साक्षिणौ ॥' अथान्येऽपि प्रत्ययाः चंद्रशेगोन्नतिर्ग्रहयुतिश्च सूर्यादीनां ग्रहाणां च्छायागणितागता । यद्यपि भौमादीनां छाया दृग्गोचरा नास्ति तथापि नलिकादियंत्रवेधेन यस्मिन्समये सुषिरमध्ये ग्रह आगच्छति तत्समयसंवादादर्थापत्तिप्रमाणसिद्धा छायापि प्रत्ययः । शुक्रस्य तु महामंडलत्वे छाया दृग्गोचरापि भवति । ग्रहाणां चंद्रादीनां द्विविधा अप्यस्तोदयाः । एके सूर्यासन्नवशेन, अपरे प्रत्यहं क्षितिजसंबंधवशात् । ततोऽपि सूर्यासन्नवशतो भौमगुरुशनीनां प्राच्यामेवोदयः, प्रतीच्यामेवास्तः । बुधशुक्रयोस्त्वनियतः । क्षितिजसंबंधवशेन तु सर्वेषामपि सूर्यादीनां प्राच्यामेवोदयः, प्रतीच्यामेवास्तः । अथायुर्दायस्येयत्ता। यात्रायां शुभशकुने शुभफलम् , अशुभशकुनेऽशुभफलम्। यज्ञोपवीतविवाहादिमंगलकृत्येपु शुभलग्नानुष्ठितेषूक्तफलावाप्तिः । यत्र वचिब्यभिचारः स जन्मकालीनसदसद्रहवशेन । एवमादयोऽपि प्रत्यया ऊह्याः । सर्वेषामपि शास्त्राणामध्ययने मोक्षाद्यदृष्टरूपं फलं तु वाचनिकमेव, तदस्मिअपि शास्त्रे तुल्यमित्यलमतिप्रसक्तानुप्रसत्तेनेति शिवम् ॥ १॥ ' अथ मुहूर्तचिंतामणिनामकग्रंथप्रकरणप्रतिज्ञामभिधायेदानी सामान्यतो मुहूर्तविचारार्थमुत्सर्गापवादरूपा गुणा दोषाश्च तावद्वक्तव्याः, तेषां च तिथ्यायधीनत्वादादौ तिथयो वक्तव्याः, तासां तु लोकप्रसिद्धत्वादेवावक्तव्यतायां सिद्धायां तत्स्वामिन एवानुष्टुप्छंदसाभिदधाति• तिथीशा वह्निको गौरी गणेशोऽहिणुहो रविः ।
शिवो दुर्गातको विश्वे हरिः कामः शिवः शशी ॥३॥ तिथीशा इति॥ एते पंचदश तिथीनां क्रमेणेशाः स्वामिनस्तानाह-वह्निकावित्यादि । वह्निश्च कश्च वह्निको । वह्निः अग्निः, को ब्रह्मा । अत्र ‘देवताद्वंद्वे च' इत्यानङ् न भवति । एकहविर्भाक्त्वेन प्रसिद्धसाहचर्याभावात् । नन्वेवं 'अल्पाच्तरं' इति द्वंद्वे कशब्दस्य पूर्वनिपातप्राप्तिः । 'ङसिङयोः स्मास्मिनौ' इति ज्ञापन पूर्वनिपातप्रकरणमनित्यमित्यनित्यत्वात्क्रमस्य विवक्षितत्वाच्च न भवति । एवं सति प्रतिपदो वह्निर्द्वितीयाया ब्रह्मा स्वामीत्ययमर्थः सिद्धो भवति । अथवा 'तिथीशोऽग्निर्विधिगैरी' इत्यसंदेहार्थमेवं पठितव्यम् । 'ईश ऐश्वर्ये' इति धातुः कर्बर्थक्विबंतस्तस्माद्बहुवचनं जस् । ईशते इतीशाः, तिथीनामीशास्तिथीशाः, तिथिस्वामिन इत्यर्थः । अथवा 'तिथीशा रो विधिगौरी' इति व्यक्तं पठनीयम् । ईशशब्दोऽकारांतः । रशब्देनाग्निरुच्यते । 'रः पावके च तीक्ष्णांशौ' इति विश्वः । 'रश्च कालेऽनले सूर्ये' इत्येकाक्षरनिघंटः। रोऽग्निः, विधिद्ब्रह्मा, गौरी पार्वती, गणेशः प्रसिद्धः, अहिः सर्पः, गुहः स्वामिकार्तिकेयः, रविः सूर्यः, शिवो महादेवः, दुर्गा जगदंबा, अंतको यमः, विश्वे विश्वेदेवाः, हरिर्विष्णुः, कामो मदनः, शिवः स एव, शशी चंद्रः।