________________
मुहूतचिंतामणिः। [ज्यौतिषस्य दृक्प्रत्ययित्वाच्छैष्ठ्यं 'तिथ्युत्पत्तिं न जानति ग्रहाणां नैव साधनम् । परवाक्येन वर्तते ते वै नक्षत्रसूचकाः' इति । व्युत्पत्तिस्तु-गृहे गृहे गत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूचकानि सूचयतीति नक्षत्रसूची । वराहः-'नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स व्रजत्यंधतामिस्रं सार्धमृक्षविडंबिना । मक्षत्रसूचकं पापं भिषजं शुल्कजीविनम् । तादृपौराणिकादींश्च वाङ्मात्रेणापि नार्चयेत् ॥' अत एव वसिष्ठः-'विस्कंधपारंगम एव पूज्यः श्राद्धे सदा भूसुरवृंदमध्ये । नक्षत्रसूची खलु पापरूपो हेयः सदा सर्वसुधर्मकृत्ये॥' वराहोऽपि'ग्रंथतश्चार्थतश्चैव कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवेच्छ्राद्धे पूजितः पंक्तिपावनः ॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ मुहूर्ततिथिनक्षत्रमृतवश्वायनानि च । सर्वाण्येवाकुलानि स्युन स्यात्सांवत्सरो यदि ॥' अत एव यद्धर्मशास्त्रे सुमंतः-तस्करकितवेत्यादिनामहता गद्येन सांवत्सरिकोऽपांक्तेय इत्याह । महाभारतेऽपि-'कितवो भ्रूणहा यक्ष्मी' इत्यादिपद्यषट्कमध्ये-'कुशीलवो देवलको नक्षत्रैर्यश्च जीवति । एतानिह विजानीयाद् ब्राह्मणान् पंक्तिदूषकान् ॥' इत्युक्तं, तन्नक्षत्रसूचकज्योतिविद्विषयम् । यदाह कश्यपः-'दारविंग्भ्रूणहतूंश्च व्यंगानक्षत्रसूचकान् । वर्जयेद्राह्मणानेतान्सर्वकर्मसु यत्नतः ॥' इति । 'नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः' इति ब्रह्मपुराणेऽप्युक्तेः, अपृष्ट इति वाक्यशेषोऽत्राध्याहार्यः । अत एव मनु:-'तिथिं पक्षस्य न ब्रूयान्न नक्षत्राणि निर्दिशेत्' इत्याह स्म । यमोऽपि-'नक्षत्रतिथिपुण्याहान्मुहूर्तान्मंगलानि च । न निर्दिशंति ये विप्रास्तैर्भुक्तं ह्यक्षयं भवेत् ॥' इति । वसिष्ठवाक्यं तु प्रागभिहितम् । महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञानाद्ब्रह्मसायुज्यमिति । तदुक्तं गर्गेण-ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम् । ज्योतिर्ज्ञानं च यो वेद स याति परमां गतिम् ॥ परमां गतिं ब्रह्मसायुज्यमिति । सूर्यसिद्धान्तेऽपि–'दिव्यं चक्षुर्ग्रहाणां दर्शितं ज्ञानमुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम् ॥' वराहसंहितायामपि-'न सांवत्सरपाठी च नरके परिपच्यते । ब्रह्मलोकं प्रतिष्ठां च लभते दैवचिंतकः॥' इति । संवत्सरं वर्षमधिकृत्य कृतो ग्रंथः सांवत्सरः। 'अधिकृत्य कृते ग्रंथे' इत्यण् । आदिवृद्धिः। तं पठितुं शीलमस्य स सांवत्सरपाठी ज्योतिर्विदुच्यते । वसिष्ठेन त्वैहिकामुष्मिकरूपं फलद्वयमप्युक्तं प्राक्-'एतद्बुवा सम्यगामोति नूनं धर्म चार्थ मोक्षमग्र्यं यशश्च ॥' इति । तस्माज्ज्योतिःशास्त्रमवश्यमध्येतव्यमिति स्थितं । ननु ज्योतिःशास्त्राध्ययनं न्यायशास्त्रादिवत् किं वादमात्रफलम् , उत चिकित्साशास्त्रवत्प्रत्यक्षदृश्यफलम् ? उच्यते,-दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति दृष्टार्थताप्यस्य शास्त्रस्य । वादरूपं तु फलं सर्वेष्वपि शास्त्रेषु तुल्यम् । उक्तं च-'अन्यानि शास्त्राणि विनोदमानं न किंचिदेषां भुवि दृष्टमस्ति । चिकित्सितज्यौतिषमंत्रवादाः पदे पदे प्रत्ययमावहंति ॥' प्रत्ययं विश्वास संवादरूपम् । नन्वस्मिन् शास्त्रे के वा प्रत्यया इति चेत्पृच्छसि, तर्हि शृणु