________________
हीनोत्तमदैवज्ञलक्षणानि] शुभाशुभप्रकरणम् १ |
ज्योतिःशास्त्रम् । उक्तं च वेदांगज्योतिषे - 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥' अत एव वेदस्य मुख्यमिदमंगं चक्षूरूपत्वात् । तदयुक्त शिक्षायाम्— 'छंदः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।' तथा — 'यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्योतिषं मूर्धनि स्थितम् ॥' इति । एवं मुख्यतायां सत्यां दृष्टांतो वसिष्टसिद्धान्ते - ' वेदस्य चक्षुः किल शास्त्रमेतत्प्रधानतांगेषु ततोऽर्थजाता । अंगैर्युतोऽन्यैः परिपूर्ण मूर्तिश्चक्षुर्विहीनः पुरुषो न किंचित् ॥' तस्माकमैौपयिकत्वादवश्यमध्येयं ज्योतिःशास्त्रम् । तत्राध्ययने समीचीनशिष्या एवाध्याप्या न कृतघ्नादयः । तदुक्तं श्रुतौ - 'विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥' इति । समरसारेऽपि - ' नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धि सम्यक् फलाय । अस्थाने हि स्थाप्यमानैव वाचां देवी कोपानि
नो चिराय ॥ विनयावनताय दीयमानं प्रभवेत्कल्पलतेव सत्फलाय । उपकृत्यनुचिंतकानि शास्त्राण्युपकारस्य पदं हि साधुरेव ॥' इति । सिद्धांतशिरोमणावपि — 'दिव्यं ज्ञानमतींद्रियं यदृषिभिर्ब्राह्मं वसिष्ठादिभिः पारं - पर्यवशाद्वहस्यमत्रनीं नीतं प्रकाश्यं ततः । नैतद्वेषिकृतघ्नदुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमामिमामुज्झतः ॥' इति । एवं सत्यस्मिञ्ज्योतिःशास्त्रे सर्वथा न शूद्राणामधिकारः । उक्तं च मनुना - 'एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥' इति । नारदवाक्यं तु प्रागेवाभिहितम् । तत्र यदि ब्राह्मणः शूद्रं लोभादिना पाठयति तस्माच्च पठति तदा महान् दोषः । यदाह गर्गः - 'स्नेहाल्लोभाच्च मोहाच्च यो विप्रोऽज्ञानतोऽपि वा । शूद्राणामुपदेशं तु दद्यात्स नरकं ब्रजेत् ॥ लग्नं ददाति यः शूद्रः सकृत्षोडशकर्मणाम् । अंधो युगसहस्रांते जायते श्वानयोनिषु । सम्यगाचारयुक्तोऽपि यः शूद्रः सर्वशास्त्रवित् । वर्जयेद्वचनं तस्य कपालस्थोदकं यथा॥' इति । कपालं = मनुष्यशिरोमध्यवर्त्यस्थि । 'भृतकाध्यापको यश्च भृतकाध्यापितश्च यः । तावुभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥' इति सामान्यतो हेमाद्रौ देवल स्मरणाच्च । अथैवंविधस्य ज्योतिःशास्त्रस्याध्येतुमहात्म्यमाह मांडव्यः - ' एवंविधस्य श्रुतिनेत्रशास्त्रस्वरूपभर्तुः खलु दर्शनं वै । निहंत्यशेषं कलुषं जनानां षडब्दजं धर्मसुखास्पदं स्यात् ॥' इति । अत्र ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्यधायि — 'दशदिनकृतपापं हंति सिद्धांतवेत्ता त्रिदिनजनितदोषं तंत्रविज्ञः स एव । करणभगणवेत्ता हंत्यहोरात्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची ॥' नक्षत्रसूची दैवज्ञो घनं बहु अंहः पापं जनयति । तल्लक्षणं वाराहसंहितायाम् – 'अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ अन्यच्च—
1