________________
मुहूतचिंतामणिः। [अत्राधिकार्यादिनिर्णयः वश्यमुपादेयत्वमस्य ग्रंथस्य । ननु किमभिधेयार्थकमिदं शास्त्रम् ? प्रयोजनमपि किम् ? 'प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तते' इति न्यायात् । उक्तं च-'सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते॥' अन्यच्च-'ज्ञातार्थ ज्ञातसंबंधं श्रोतुं श्रोता प्रवर्तते । ग्रंथादौ तेन वक्तव्यः संबंधः सप्रयोजनः॥' इति। उच्यते-मुहूर्तचिंतामणिमित्यनेनैव पदेन सर्व सूचितम् । तथा हि-शुभाशुभप्रकरणनक्षत्रप्रकरणसंक्रांतिगोचरप्रकरणसंस्कारविवाहप्रकरणवधूप्रवेशाग्याधानराजाभिषेकयात्राप्रकरणगृहारंभगृहप्रवेशमुहूर्तसमुदायाः संहितापदार्थाः प्रतिपाद्यत्वेन विषयभूताः। यद्यपि वसिष्ठादिभिः सूर्यचाराद्यत्पातादिकमपि संहितापदार्थेष्वभ्यधायि तथाप्यत्र तेषां मुहूर्तविचारेऽनुपयोगाईथकृता नोक्तमिति तात्पर्यम् । मुहूर्तानां प्रतिक्षणं लौकिकविचाराईत्वेन तदभिधानात् । अत्राभिधेयपदार्थानां मुहूर्त चिंतामणिनामकग्रंथस्य च प्रतिपाद्यप्रतिपादकभावः संबंधः । प्रयोजनं शुभाशुभकथनं विवाहादिकालनिर्णयश्च । यदाह नारदः-'प्रयोजनं तु जगतः शुभाशुभनिरूपणम् ।' कश्यपोऽपि-'ग्रहणग्रहसंक्रांतियज्ञाध्ययनकर्मणाम् । प्रयोजनं व्रतोद्वाहक्रियाणां कालनिर्णयः ॥' एतजिज्ञासुरधिकारी। सच द्विज एव नान्यः। तदुक्तं नारदेनैव-सिद्धांतसंहिताहोरारूपस्कंधत्रयात्मकम् । वेदस्य निर्मलं चक्षुर्योतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतं स्मात कर्म न सिध्यति । तस्माजगद्वितायेदं ब्रह्मणा निर्मितं पुरा॥ अत एव द्विजैरेतदध्येतव्यं प्रयत्नतः॥' इति । अत्रैवकारस्य प्रपाठक्रमेण योजने प्रयोजनं विनैव ज्योतिःशास्त्राध्ययनस्यावश्यकत्वं प्रतीयते । द्विजैरेवेति व्याख्याने द्विजव्यतिरिक्तैः शूरै ध्येयमिति च प्रतीयते । व्याख्याद्वयमपि युक्तमेव । द्विजाः ब्राह्मणक्षत्रियवैश्याः । उक्तं च काशीखंडे-'ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजाः स्मृताः । प्रथम मातृतो जन्म द्वितीयं चोपनायनात् ॥' इति । यत्तु वसिष्ठवचने-'अध्येतव्यं ब्राह्मणैरेव तस्माज्जयोतिःशास्त्रं पुण्यमेतद्रहस्यम् । एतद्बुध्वा सम्यगामोति नूनं धर्म चार्थ मोक्षमग्र्यं यशश्च ॥' इति । श्रुतावपि-'ब्राह्मणेन निष्कारणो धर्मः षडंगो वेदोऽध्येयो ज्ञेयश्च' इति । ब्राह्मणग्रहणमध्यापनेऽप्यावश्यकत्वसूचनार्थम् । अत एव महाभारते-'यजनं याजनं चैव तथा दानप्रतिग्रहौ । अध्यापनं चाध्ययनं षट्कर्मा ब्राह्मणः स्मृतः ॥' इति । क्षत्रियविशोस्त्वध्ययन एवाधिकारो नाध्यापने । तदुक्तं मनुना-'प्रजानां रक्षणं दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिं च क्षत्रियस्य समादिशेत् ॥ पशूनां रक्षणं दानमिज्याध्ययनमेव च । वाणिज्यं च कुसीदं च वैश्यस्य कृषिरेव च ॥' इति । अत्र प्रजारक्षणाद्युक्तेर्नाध्यापनाधिकारः । ननु कथं ज्यौतिषं श्रौतस्मार्तकौंपयिकं ? इति चेदुच्यते-'अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीत', तथा 'वसंते ब्राह्मणोऽग्नीनादधीत', 'दर्शपूर्णमासाभ्यां यजेत' इत्यादिश्रुतयः संति । तत्र वर्षज्ञानमादित्यादिग्रहचारपरिच्छेदसाध्यं, तस्य वसन्तातूनां च दर्शपौर्णमासयोश्च ज्ञानं ज्यौतिष विना सर्वथैव न निर्वहतीत्यवश्यमध्येतव्यं