________________
एतद्न्थप्रयोजनम् ] शुभाशुभप्रकरणम् १ । विसर्गातो दीवों युक्तपरश्च यः । वा पादांते त्वसौ ग्वको ज्ञेयोऽन्यो मात्रिको लजुः ॥' इत्यलमतिप्रसंगेनेति शिवम् ॥ १ ॥ __एवमादिपद्येनेष्टदेवताशीर्वादरूपमंगलमभिधायेदानीं ज्योतिषग्रंथमारभमाणो रामज्योतिर्विद्विषयप्रयोजनसंबंधाधिकारिणः सूचयन् कर्तव्यमुपजातिकया प्रतिजानीतेक्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ।
अनंतदैवज्ञसुतः स रामो मुहूर्तचिंतामणिमातनोति ॥२॥ क्रियाकलापेति ॥ स प्रसिद्धो जगतीतलेऽनंताख्यो दैवज्ञो ज्योतिर्वित् तस्य सुतः पुत्रो रामो रामज्योतिर्वित् मुहूर्तचिंतामणिं मुहूर्तानां दिनशुद्धिविशेषाणाम् । अथवा मुहूर्तशब्देन दिनस्य रात्रेर्वा पंचदशो विभाग उच्यते । उक्तं च रत्नमालायाम्-'दिनस्य यः पंचदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमानम्' इति । तत्र लक्षणया मुहूर्तापलक्षितः कालो मुहूर्तशब्देन विवक्ष्यते । तस्य चिंता शुभाशुभरूपो विचारस्तस्य मणिरिव मुहूर्तचिंतामणिः । यथा मणि_रकादिः समस्तकांतीनामाधारस्तथायमपि ग्रंथो निखिलमुहर्तानामांधार इत्यन्वर्थनामानं लक्षणया मुहूर्तचिंतामणिं ज्योतिषग्रंथमातनोति । निषेधविध्यादिसंनिवेशविशेषेण निरूपयतीत्यर्थः । ननु जीर्णा अपि मुहूर्तग्रंथाः संति, तैरेव निखिलमुहूर्तविचारनिर्वाहे सिद्ध किमनेन जीर्णमुहूर्तग्रंथानुवादभूतेनेत्यत आह-कीदृशं मुहूर्तचिंतामणिम् ? क्रियाकलापप्रतिपत्तिहेतुम् । क्रिया जातकर्मनामकर्मादिकास्तासां कलापः समूहस्तस्य अमुकस्मिन् शुभदिने कार्यमेतस्मिन्नशुभदिने न कार्यमित्येवंरूपा प्रतिपत्तिः सम्यक् ज्ञानं तस्या हेतुं कारणम् । अयमर्थः-अन्येषु मुहूर्तग्रंथेषु तिथिप्रकरणे कर्मविशेषेषु शुभाशुभतिथयो निरूपिताः । एवं वारप्रकरणे वारा एव । तथा नक्षत्रप्रकरणे नक्षत्राण्येव । योगप्रकरणे योगा एव । लग्नप्रकरणे लग्नान्येवाभिहितानि । एवं सत्यखिलप्रकरणानां पुनःपुनरांदोलनेन मुहूर्तविचारः प्रसिध्येदिति गौरवमस्ति । अत्र त्वेकस्मिन्नेव पद्ये यो यो मुहूर्तो विचार्यते तस्य तस्य तत्रैव निर्वाह इति लाघवम् । यथा-'नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् । विना नंदाविषघटीमधुपौषार्किभूमिजान् ॥' इत्यादि । केचित्तु 'क्रियाकलापप्रतिपत्तिहेतोः' इति पंचम्यंतपाठमाहुः। ननु मुहूर्ततत्त्वादावपि क्वचिदेवंविधमुहूर्तनिरूपणाध्यर्थोऽयं श्रम इत्यत आह-कीदृशं मुहूर्तचिंतामणिं? संक्षिप्तसारार्थविलासगर्भम् । संक्षिप्तः शब्दैः सारार्थो निष्कृष्टार्थस्तस्य विलासः प्रकाशः स गर्भे यस्यासौ । संक्षिप्तश्चासौ सारार्थविलासगर्भश्च संक्षिप्तसारार्थविलासगर्भस्तमिति कर्मधारयः । यद्यपीदानींतनग्रंथेषु शब्दलाघवेनार्थबाहुल्यमस्ति तथापि शब्दानां दुरवबोधार्थत्वाद्गुरुमुखादप्यध्ययने सति झटिति मनस्यास्फुरणाचेत्यनुपादेयत्वम् । अत्र तु शब्दतोऽपि लाघवं, तत्रापि निष्कृष्टस्याप्यर्थस्य तादृशशब्दैर्निरूपणाद्यथा गुरुमुखं विनैवार्थज्ञानं सद्यो मनसि जागर्तितरामित्य