________________
मुहूर्तचिंतामणिः। [मङ्गलाचरणशब्दनिरुक्तिः ऽसभ्यः स्यात्तदसभ्यार्थांतरम् । यथा वर्च इति पदं तेजसि पुरीषे च । यत्तु पदमेकदेशद्वारेणासभ्यमर्थ स्मारयति तदसभ्यस्मृतिहेतु, यथा कृकाटिकेति । एवं भंगशब्दोऽपि नानार्थः । तरंगरचनाशकलपराजयनाशादीनामर्थानां प्रकरणं विना स्फुरणादसभ्यार्थातरस्य नाशस्य प्रतीतेरश्लीलत्वम् । काव्यप्रकाशेऽप्यश्लीलोदाहरणम्-'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥' अत्र पितृवसतिशब्देन पितुर्गृहमिति विवक्षितम् । तत्र श्मशानार्थस्यापि प्रतीतेरश्लीलत्वादमंगलार्थत्वम् । कथं तर्हि-'भंगं जयं चापतुरव्यवस्थम्' इति कालिदासः? अत्र भंगशब्देन पराजयो विवक्षित इत्यश्लीलत्वमिति चेत् , सत्यम्, तत्र हि युद्धप्रस्तावे स्वरूपान्वाख्यानाददोषः । प्रस्तुते ग्रंथारंभे प्रकरणमपि नास्त्यतो भंगशब्दपाठोऽनुचितः। तस्मात् 'गौरीश्रवःकेतकबालपत्रम्'इति पाठः साधीयान् (कैल्प्यः । केचिदत्रपाटे बहक्षरपरिवर्तनभयात् 'गौरीश्रवः केतकपत्रभागम्' इति पठंति)। तदेतत्सर्वं मत्सररहितैः सूरिभिर्विवेचनीयम् । अथ काव्यत्वादेव प्रसंगतो वर्णगणशुद्धी विचार्यते । तत्र श्लोकादावसंयुक्तशुभफलदगकारप्रक्षेपादस्ति वर्णशुद्धिः। तदुक्तं भामहेन-'कः खो गो घश्न लक्ष्मी वितरति च यशो ङस्तथा चः सुखं छः प्रीतिं जो मित्रलाभं भयमरणकरोइनो टठौ खेददुःखे । डः शोभा ढो विशोभा भ्रमणमथ च णस्तः सुखं थश्च युद्धं दो धः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं पवर्गः ॥ यो लक्ष्मी रश्च दाहं व्यसनमथ लवौ शः सुखं षश्च खेदं सः सौख्यं हश्च खेदं व्यसनमथ च ळः क्षः समृद्धिं करोति । संयुक्तं चेह न स्यात्सुखमरणपटुर्वर्णविन्यासयोगः पद्यादौ गद्यवक्रे वचसि च सकले प्राकृतादौ समोऽयम् ॥' इति । तेन नायकादेः सुखं भवति । 'अक्षरे परिशुद्धे तु नायको भूतिमृच्छति' इति वचनात् । प्रस्तुते ग्रंथकर्तुरध्येतुरध्यापकस्य वा सुखं वाच्यम् । अथ गणशुद्धिः। तत्रास्मिन्पद्ये इंद्रवज्राछंदः। तल्लक्षणं वृत्तरत्नाकरेणोक्तम्-'स्यादिंद्रवज्रा यदि तौ जगौ गः' इति । -तत्र गणलक्षणमपि तेनैवोक्तम्-'सर्वगुमौ मुखांतों यरावंतगलौ सतौ। ग्मध्याद्यौ भौ त्रिलो नोऽष्टी भवंत्यत्र गणास्त्रिकाः॥' इति । एषां गणानां फलमन्यैरभ्यधायि-'मकारः श्रियं योऽतिवृद्धिं ररोगं सकारश्च देशाटनं द्रव्यहानिम् । तकारो जकारो रुजं भश्च कीर्ति न आयुः प्रयच्छत्यजस्रं जनानाम् ।' इति वचनादिदं फलमध्यापकाध्येतृप्रभृतीनां ज्ञेयम् । एवं सति द्रव्यहानिरूपफलदस्य तगणस्यादौ प्रयोगाद्दुष्टमिदं काव्यमिति चेत् , सत्यम् ,-'उमा कात्यायनी गौरी' इति वचनाद्गौरीशब्दो देवतावाचकस्तस्यादौ प्रयोगाढुष्टफलत्वं .नास्तीति समाधिः । यथोक्तम्-'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निंद्याः स्युर्लिपितो गणतोऽपि वा ॥' इति । नन्वेवमपींद्रवज्रालक्षणासंगतिः । पादांतस्थाक्षरस्य 'हस्वं लघु' इति लघुसंज्ञकत्वात् 'संयोगे गुरु' .'दीर्घ च' इति विशेषलक्षणानाक्रांतत्वेन गुरुत्वायोगाच्च । उच्यते-पादांतस्थस्य लघोरपि वैकल्पिकगुरुत्वोक्तेरदोषः । यथोक्तं वृत्तरत्नाकरे—'सानुस्वारो . १ कोष्टकस्थोऽयं पाठः क्वचिदृश्यते ।