________________
मङ्गलाचरणशब्दनिरुक्तिः] शुभाशुभप्रकरणम् । समये यावन्निगरणं करोति तावद्गणेशोऽपि द्विदंत एवालोकि लोकैः । अद्भुतोपमाख्योऽलंकारः। उक्तं च दंडिना काव्यादर्श-'यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपंचोऽयं प्रदृश्यते ॥ यदि किंचिद्भवेत्पद्म सुभ्र विभ्रांतलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥' इति, श्लोकाथों व्याख्यातः । अत्र गणेशस्य नमनादिरूपा पूजा ब्रह्मवैवर्तेऽभिहिता-'ढुंढिराजः प्रियः पुत्रो भवान्याः शंकरस्य च । तस्य पूजनमात्रेण त्रयोऽपि वरदाः सदा ॥' त्रयः ब्रह्मविष्णुशिवाः । 'गणेशः सर्वदेवानामादौ पूज्यः सदैव हि । सर्वैरपि, महाविघ्ननाशकोऽन्यो न विद्यते ॥' इति । शिष्टाचारोऽप्येतन्मूलक एव । यथा-'सुमुखश्चैकदंतश्च कपिलो गजकर्णकः। लंबोदरश्च विकटो विघ्ननाशो विनायकः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥' इति । गौरीति । 'षिद्वौरादिभ्यश्च' इति ङीष् । केतकं केतक्याः पुष्पसंज्ञेयमवयवार्थे 'अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्यण् । 'पुष्पमूलेषु बहुलम्' इति तस्य लुक् । ददत् । ददातीति ददत् । शतृप्रत्यये जौहोत्यादिकत्वाद्विकरणस्य शपः श्लौ सति 'श्लो' इति द्विर्वचने 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायां 'भाभ्यस्तयोरातः' इत्याकारलोपः । ततः 'उगिदचां सर्वनामस्थानेऽधातोः' इति प्राप्तस्य 'नाभ्यस्ताच्छतुः' इति नुमोऽभावः। आकलितेति 'निष्ठा' इति बहुव्रीहौ निष्टांतस्य पूर्वनिपातः । द्विपास्य इति । द्वाभ्यां शुंडादंडमुखाभ्यां जलं पिबतीति द्विपः । 'आतोऽनुपसर्गे कः' इति कः । 'आतो लोप इटि च' इत्याकारलोपः । द्विपस्यास्यमिवास्यं यस्यासौ द्विपास्यः । 'सप्तम्युपमानपूर्वस्य वाच्यो वोत्तरपदलोपश्च' इति बहुव्रीहिः समास उत्तरपदलोपश्च । 'हस्तौ तु पाणिनक्षत्रे' इति हस्तशब्दः पाणिनक्षत्रवाचकः,तथाप्युपचाराद्धस्तिशुंडायामपि वर्तते । अत एव 'हस्ताज्जातौ' इति वदन्पाणिनिरप्यत्रानुकूलः। क्षीरखाम्यपि 'बलिहस्तांशवः कराः' इत्यस्य व्याख्याने हस्तिशुंडापि कर उपचारादिति व्याचख्यौ । तद्वत्प्रस्तुतेऽपि । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इति विश्वप्रकाशे हस्तिशुंडावाचकत्वमप्युक्तं हस्तशब्दस्य। अथात्र कवित्वे भंगशब्दोऽनुचितः । तथा हि-'लोकोत्तरवर्णनानिपुणकविकर्म काव्यम्' इति काव्यलक्षणस्यात्र कवित्वे सत्त्वात् यस्मिन्कस्मिंश्चित्पद्ये भंगशब्दोपादानमयुक्तम् । विशेषतो ग्रंथारंभभूते कुतः। 'तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि' इति काव्यप्रकाशकारोक्तेर्दोषरहितयोः शब्दार्थयोः काव्यताऽवसीयते। तत्र शब्ददोषग्रस्तावे काव्यप्रकाशकारेण दोषोल्लासे-'दुष्टं पदंश्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ॥ संदिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेक्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥' इति शब्ददोषा उक्ताः । तत्र भंगशब्देनासभ्यार्थातरकत्वादश्लीलाख्यो दोषोऽभिहितो भवति । तल्लक्षणं वामनेनोक्तम्-'असभ्याांतरमसभ्यस्मृतिहेतुश्चाश्लीलम्' इति । अस्यार्थः यस्य पदस्यानेकार्थस्यैकोऽर्थो