SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणिः। [ग्रंथकृन्मंगलाचरण तिलकाच्छ्रीनीलकंठात्तया गोविंदाख्यसुतोऽजनि स्वगुरुतः संप्राप्तविद्यागणः। यः शास्त्रामृतसिंधुबंधुरवचोवीचीषु नित्योदतां सानंदं समवाप्य भूरि कृतवान् ग्रंथे श्रमं ज्यौतिषे ॥ १२॥ अनेकबुधमंडलीविरचितां हि टीकाकृतौ निधाय हृदयेऽर्थनामिह मुहूर्तचिंतामणेः। निगूढतरतद्गतप्रचुरभावमात्मोक्तिभिर्बुधा विवरणे करामलकमाशु कर्तुं यते ॥ १३ ॥ मुहूर्तचिंतामणिदुग्धसिंधुमामथ्य युक्तिव्रजमंदरेण । गोविंदसंज्ञस्तनुते सुखाय पीयूषधारां भुवि भूसुराणाम् ॥१४॥ तत्रादितो गाणपतं प्रणम्य पादाजयुग्मं विदुषां सुतुष्ट्यै । शुभाशुभाध्यायभवां हि टीकां गोविंददैवज्ञ इमां करोति ॥ १५॥ अथ ग्रंथादौ ग्रंथमध्ये ग्रंथांते च मंगलमाचरणीयमवश्यमिति शिष्टाचारः । उक्तं च महाभाष्ये-'मंगलादीनि मंगलमध्यानि मंगलांतानि च शास्त्राणि प्रयते वीरपुरुषाणि भवंत्यायुष्मत्पुरुषाणि च' इति । तच्च मंगलं त्रिविधं'आशीरूपं नमस्काररूपं वस्तुनिर्देशरूपं च' इति । उक्तं च दंडिना काव्यादशे-'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इति । वस्तुनिर्देशो नलादेमहाराजराजस्य सिद्धादिशब्दानां वा ग्रंथादौ कथनम् । तत्र तावद्गार्यमुनिवरवंशतिलकमैत्रावरुण्यलंकारदिगंतर्गतमातृपुरनिवासी सकलज्योतिर्विन्मुकुटरत्नचिंतामणिज्योतिर्विपुत्रानंतज्योतिर्विपुत्रो नीलकंठज्योतिर्विदनुजो रामज्योतिर्वित्रिस्कंधज्योतिःशास्त्रसरोजनिचयभास्करो ग्रंथकृन्मुहूर्तचिंतामणिनामकं श्रौतस्मार्ताद्यनेककमौंपयिक संहितास्कंधांतर्गतनानामुहूर्तसंग्रहरूपं ज्यौतिषग्रंथं चिकीर्षुरनेकजन्मोपार्जितदुरितसंभूतविघ्नध्वंसकामो निर्विघ्नग्रंथसमाप्तिप्रचयगमनार्थ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताककर्माभिमतगणेशदेवताशीर्वादरूपं मंगलमिंद्रवज्राच्छंदसोपनिबध्नाति. गौरीश्रव केतकपत्रभंगमाकृष्य हस्तेन ददन्मुखाग्रे। - विघ्नं मुहूर्ताकलितद्वितीयदंतप्ररोहो हरतु द्विपास्यः ॥१॥ . गौरीत्यादिना । द्विपास्यो विघ्नं हरत्वित्यन्वयः । युष्माकमित्यध्याहारः । द्विपस्य हस्तिन आस्यमिवास्यं मुखं यस्य स द्विपास्यो गणेशो युष्माकं विघ्नं हरतु निराकरोतु । 'आशिषि लिङ्लोटौ' इति लोट। कीदृशो द्विपास्यः? गौरीश्रवः केतकपत्रभंगं गौरी पार्वती तस्याः श्रवसी कौँ तयोः स्थितं यत्केतकपत्रं केतकीवृक्षस्य पुष्पं केतकं तस्य पत्रं तस्य भंगोंऽशस्तं हस्तेन शुंडादंडेन कृत्वा आकृष्य हठाद् गृहीत्वा मुखाग्रे स्वमुखौष्ठे ददाति भक्षणार्थ स्थापयतीति ददत् । अनेन बाललीला गणेशस्य सूचिता। बालो हि मातृसमीपवर्ति यत्किंचित्स्वेष्टं वस्तु बलात्कारेण गृहीत्वा मुखे निक्षिपति । अत एव कीदृशो गणेशः? मुहूर्ताकलितद्वितीयदंतप्ररोहः । मुहूर्तेन क्षणेनाकलितः धातूनामनेकार्थत्वात् अनुहृतो हस्तिद्वितीयदंतसादृश्यं प्रापितो द्वितीयदंतस्य प्ररोह उद्गमो येन सः । अनेनात्याश्चर्य सूचितं भवति । तथा हि-हस्तिनो दृश्यमाना द्विदंता एव । गणेशस्त्वेकदंत एवेति पुराणप्रसिद्धम् । केतकपत्रस्य मुखस्थापन
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy