________________
श्रीः।
मुहूर्तचिंतामणिः। पीयूषधाराख्यव्याख्यया समलंकृतः।।
शुभाशुभप्रकरणम् १। ___ श्रीगणेशाय नमः ॥ दधानं ,गालीमनिशममले गंडयुगले ददानं सर्वा
निजचरणसेवासुकृतिने । दयाधारं सारं निखिलनिगमानामनुदिनं गजाये मेरास्यं तमिह कलये चित्तनिलये ॥१॥ निपीतध्वांताय असमरकरायोग्रमहसे निकामं कामान वितरणविनोदव्यसनिने। समस्तप्रत्यूहप्रशमनकृते श्रीदिनकृते नमस्तस्मै यस्मै स्पृहयति समस्तांबुजवनी ॥ २ ॥ लसल्लक्ष्मीलीलावस तिरनिशं वेदविहितस्फुरद्धर्माधारः श्रितसुखपयोदः प्रतिदिनम् । अतीव प्रख्यातः स जयति गुणानां जननभूर्विदर्भाख्यो देशो हरिरिव सदानन्दजनकः ॥३॥ तस्मिन्विदर्भविषये विषये वितृष्णश्चिंतामणिषुमणिरेव बभूव मूर्तः । जाग्रञ्चतुर्मुखचतुर्मुखशायिविद्यामाद्यां प्रवर्तयितुमत्र पवित्रकीर्तिः ॥ ४ ॥ वादैर्विजित्य धरणीतलमासमुद्रमुन्निद्रतर्कशतकर्कशबुद्धिसिद्धैः । चत्वार ऊर्जितसमर्जितकीर्तिदंभस्तंभा दिशासु रचिताः सकलासु येन ॥ ५॥ ज्योतिर्विदुज्वलयशोहरणाय किं वा चंद्रांशुनिर्मलकलाभरणाय किं वा । विद्यासरोरुहदृशः शरणाय किं वा श्रीमाननंत इति तत्तनयोऽजनिष्ट ॥ ६ ॥ तस्मात्पद्माख्यपत्यामतिविमलमती वाक्पती दिक्पतीनामाशाः कासारजाभस्फुरदधिकयशोरश्मिभिर्व्याप्य भातौ । प्राभूतां तौ तनूजौ श्रुतिगणगदिताचारधारापवित्रौ ज्येष्ठः श्रीनीलकंठस्तदनु गुणगणालंकृतो रामनामा ॥ ७ ॥ सीमा मीमांसकानां कृतसुकृतचयः कर्कशस्तर्कशास्त्रे ज्योतिःशास्त्रे च गर्गः फणिपतिभणितिव्याकृतौ शेषनागः । पृथ्वीशाकब्बरस्य स्फुरदतुलसभामंडनं पंडितेंद्रः साक्षाच्छ्रीनीलकंठः समजनि जगतीमंडले नीलकंठः ॥ ८॥ रामो हेरंबभक्तेरधिगतविशदानेकविद्योऽनवद्यो बुद्धिप्रद्योतमानो गणितगुणवतां मानवानां सुखाय । ग्रंथैर्नानाप्रकारैरतिकठिनतरग्रंथनके विशाले ज्योतिःशास्त्रार्णवे द्राग्दृढतरमतुलं सेतुबंधं चकार ॥ ९॥ श्रुतिस्मृतिप्रोक्तसमस्तकर्मोपयुक्तमानंदितशिष्टलोकम् । मुहूर्तचिंतामणिनामकं स ग्रंथं व्यधाच्छर्वपुरे स्वपयैः ॥१०॥ श्रीनीलकंठस्य बभूव पत्नी सा चंद्रिकाख्योभयवंशभूषा । नाराअणस्येव समुद्रकन्या शर्वस्य गौरीव विराजते या ॥११॥ तस्माद्देवविदग्रगण्य