________________
मुहूर्तचिंतामणिः । [ क्रूर ग्रहाधिष्ठितदोषः
अथ क्रूराक्रांतादिनक्षत्रदोषं सापवादमनुष्टुभाहऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च । भुक्त्वा चंद्रेण मुक्तानि शुभार्हाणि प्रचक्षते ॥ ५६ ॥
ऋक्षाणीति ॥ क्रूरग्रहैर्विद्धानि ऋक्षाणि तथा क्रूरैर्मुक्तानि त्यक्तानि आादिशब्दात्रैराक्रांतानि क्रूरगंतव्यानि च चकारस्यानुक्तसमुच्चयार्थत्वात् त्रिवि धोत्पातैः दूषितानि ऋक्षाणि दूषितानि ज्ञेयानि । तानि यदि चंद्रेण भुक्त्वा मुक्तानि तथा शुभाणि प्रचक्षते वदंति । मुनय इति शेषः । यदाह वात्स्यः - 'भुक्तं भोग्यं तथाक्रांतं विद्धं पापग्रहेण भम् । मंगलेषु च कार्येषु यत्नतः परिवर्जयेत् ॥” इति । वसिष्ठोऽपि - ' उत्पातभं ग्रहणभं क्रूरविद्धस्थितं च यत् । दहत्येव शुभं कर्म येथा रामशरोंऽबुधिम् ॥' इति । शा
ये — 'क्रूराश्रितं क्रूरविमुक्तविद्धं गंतव्यधिष्ण्येषु कुमारिकाणाम् । वदंति पाणिग्रहणे मुनींद्रा वैधव्यमन्दैस्त्रिभिरेवमाहुः ॥' इति । अस्यापवादमाह केशवार्क :- 'उत्पात पापग्रहदूषितं भं यदींदुराक्रम्य पुनर्भुनक्ति । तदा तदहं किल मंगलेषु त्यजेत्समाक्रांततनू रवींद्वोः ॥' इति । अयमवधिराक्रांतनक्षत्रभिन्नविषयो वेदितव्यः । तत्र हि चांडालधृतहस्तस्नानवचंद्र भोगस्यानिर्णेजकत्वात् । तदुक्तं शाङ्गये- 'यद्धिष्ण्यं दोषसंयुक्तं स्यात्तथापींदुसंयुतम् । शुभकार्येषु तत्त्याज्यमन्यकर्मसु सिद्धिदम् ॥ यथा हि चांडालष्टतैकहस्तो मज्जनगाधेऽपि सरित्प्रवाहे । भवेन्न पूतः शशिभोगतोऽपि तथा न शुध्येदुडु पापयुक्तम् ॥ स्पृष्ट्वा गते तु चांडाले शुद्धिराप्लवनाद्यथा । तथा भुक्त्वा गते क्रूरे 'चंद्रभोगाद्विशोधनम् ॥' इति । अत एवोक्तं वसिष्ठेन - ' गंतव्यधिष्ण्यं खलु भुक्तभं यत्क्रूरैर्महोत्पातविदूषितं च । चंद्रोपभोगादमलं तदानीं शुभेषु कार्येषु शुभप्रदं च ॥ इति । एतच्च समानन्यायत्वात्क्रूरविद्धे भे चंद्रभोगादपि शुद्धिर्नास्तीत्यत्रापि ध्येयम् । यत्तु नारदेनोक्तम् — ग्रहणोत्पातनं त्याज्यं मंगलेषु ऋतुत्रयम् । यावच्च रविणा भुक्त्वा न मुक्तं दग्धकाष्ठवत् ॥' इति, तत् 'यावद्वचनं वाचनिकम्' इति न्यायेन ग्रहणोत्पातभयोः षण्मासपर्यंतं निषेधस्ततोऽपि यावद्भविणा भुक्त्वा न त्यक्तं तावत्यजेत् । तत्रापि चंद्रग्रहण एव सूर्यग्रहणीयनक्षत्रस्य तु षण्मासानंतरं सूर्यभोगासंभव एव । अतो न क्रूरमुक्तादौ रविभोगापेक्षा । उत्पातभस्य तु चंद्रोपभोगोऽप्यावश्यको वसिष्ठवाक्यालोचनात् । अत्र क्रूरवेधे निखिलं भं त्याज्यं न चरण एव । तदुक्तं कश्यपेन - " क्रूरविद्धयुतं धिष्ण्यं निखिलं नैव पादतः । अन्यैरपि गुणैर्युक्तं सर्वदोषविवर्जितम् ॥ त्यजेदनर्धमाणिक्यं कलंकोपहतं यथा' इति । अयं च क्रूराधिष्टितत्वदोषः क्रूरग्रहचंद्रयोरेकराशिस्थत्वे वेदितव्यः । यदा तु चंद्रः प्रथमपादे क्रूरग्रहश्च तृतीयपादे एवं सति राशिभेदोऽप्युपजायते तदा क्रूरग्रहाधिष्ठितत्वदोषो नास्तीति ध्येयम् । यथा मृगशिरसि प्रथमे पादे चंद्रः तृतीये क्रूरग्रहः
१ ‘राघवाग्निशरोंऽबुधिम्' इति क्वचिदृश्यते । २ ' सवस्त्रोऽपि' इति पाठः।
२७८