________________
पातदोषः ]
विवाहप्रकरणम् ६ |
२७९
तत्र सत्यप्येकनक्षत्रत्वे राशिभेदो द्वयोरिति । उक्तं च ज्योतिर्निबंधे - 'एकस्मिन्नधिपे धिष्ण्ये भिन्ने राशौ खलग्रहे शशिनि । तच्चंद्रर्क्षे कुर्याद्विवाहयात्रादिकं सर्वम् ॥' इति ॥ ५६ ॥
अथ लत्तादोषमुपजातिकयाहज्ञराहुपूर्णदुसिताः स्वपृष्ठे भ्रं सप्तगोजातिशरैर्मितं हि । संलत्तयतेऽर्कशनीज्य भौमाः सूर्याष्टतर्काग्निमितं पुरस्तात् ॥ ५७ ॥
ज्ञेति ॥ सप्त प्रसिद्धाः, गावो नव, जातयो द्वाविंशतिः, शराः पंच; एतैर्मितं भं स्वाक्रांतनक्षत्राज्ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठे संलत्तयंते । यथा - बुधः सप्तमं, राहुर्नवमं, पूर्णेन्दुः पूर्णिमांत चंद्रो द्वाविंशम् ; तच्च गतकृष्णपक्षे पंचमीषष्ठीसप्तमीनामन्यतमस्यां संभवति । शुक्रः पंचमं स्वपृष्ठे लत्तयतीत्यर्थः । अर्कशनीज्यभौमाः क्रमेण पुरस्तादग्रे सूर्याष्टतर्काग्निमितं संलत्तयन्ते । यथा - सूर्यः स्वाक्रांतनक्षत्राद्वादशं, शनिरष्टमं, गुरुः षष्ठं, भौमस्तृतीयभं, अग्रतो लत्तयतीत्यर्थः । यदाह नारदः - ' पुरतः पृष्ठतोऽर्काद्या दिनक्षं लत्तितं च यत् । अर्काकृतिगुणांगर्तुबाणाष्टनवसंख्यभम् ॥' इति । सूर्यः पुरतः, चंद्रः पृष्ठतः; एवं क्रमेण भौमादयोऽपि पुरतः पृष्ठतश्च लत्तयंतीत्यर्थः । वराहोऽपि - 'सूर्यो द्वादशमृक्षं षष्ठं गुरुरवनिजस्तृतीयं तु । संलत्तयति दिवाकरपुत्रोऽष्टममग्रतः पादैः ॥ पश्चाद्वाविंशतिभं पौर्णिमचंद्रस्तु पंचमं शुक्रः । स्वर्भानुरपि नवमं सप्तममृक्षं शशांकसुतः ॥' इति । प्रत्येकं वेधफलमाह स एव - 'रविलत्ता वित्तहरी नित्यं कौजी विनिर्दिशेन्मरणम् । चांद्री नाशं कुर्याद्वौधी नाशं वदत्येव ॥ सौरी मरणं कथयति बंधुविनाशं बृहस्पतेर्लत्ता । मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदती 'ति ॥ नन्वग्रलत्ता वा पृष्ठत्ता वा वक्तव्या किमिति द्वैरूप्यकथनम् ? अत्र समाधत्ते केशवार्कः - ' इति सति सदामभिलत्तने यदनुत्तनमुक्तमृषिव्रजैः । तदुडुपश्चिमपूर्वविभागयोरनधिकाधिकदोषविवक्षया ॥' इति । अनधिकः = स्वल्पः । अत्र राहोः सदा वक्रित्वान्नवमं गणनाक्रमेणैव ग्राह्यम् । यथाश्विन्यां राहुराश्लेषां लत्तयति । संमुखलत्तावादिमतेऽपि वक्रगामिना राहुणा संमुखमश्विनी रेवतीत्यादिगणनया विंशतितमं मं आश्लेषैव नः त्वन्यथा भ्रमितव्यमिति सांप्रदायिकाः ॥ ५७ ॥
अथ पातदोषं सुबोधं पथ्यार्ययाह
हर्षणवैधृतिसाध्यव्यतिपातकगंडशूलयोगानाम् ।
अंते यन्नक्षत्रं पातेन निपातितं तत्स्यात् ॥ ५८ ॥ हर्षणवैधृतीति ॥ व्यतिपातकः इति स्वार्थे कः । हर्षणेत्यादिषट् योगानां अंते यच्चंद्रनक्षत्रं भवेत्तत्पातेन चंडीशचंडायुधाख्येन निपातितं स्यात् । यदाह
१ संमुखलत्तावादिमते राहुर्विंशतितमं नक्षत्रं लत्तयति । तदुक्तं विवाहवृंदावने केशवार्केण - 'रविनखैर्मितमर्कविधुंतुदौ' इति ।