________________
२८०
मुहूर्तचिंतामणिः । [महापातदोषः त्रिविक्रमः-'साध्यहर्षणशूलानि वैश्तिव्यतिपातयोः । यद् गंडस्य चांते स्यात्तत्पातेन निपातितम् ॥' इति । नारदेन प्रकारांतरेणैतत्प्रकारसंवादकः पातोऽभिहित:-'सूर्यभात्सापित्र्यांत्यत्वाष्ट्रमित्रोडुविष्णुभे । संख्यया दिनभे तावदाश्विभात्पातदुष्टभम् ॥' वसिष्ठेनापि–'रविभादहिपितृमित्रत्वाष्ट्रभहरिपौष्णभेषु गणितेषु । आश्विनमादिंदुयुतौ तावति वै पतति गणनया पातः॥ अयमपि पातो दोषश्चंडीशचंडायुधायो ज्ञेयः । अखिलेषु मंगलेष्वपि वो यस्माद्विनाशदः कर्तुः॥' इति पद्ये यद्यपि हर्षणादीनामुपादानं नास्ति तथाप्यभिहिताश्लेषादिनक्षत्रसाहित्येन पाताभिधानात्तत्तुल्यसंख्याकेष्वेव योगेषु पातसंभवो जायते इति मत्वा हर्षणादीनामुक्तिः । यद्येवं व्यतीपातवैधतिभ्यां स्वीयभोगघटिकात्मकाभ्यां तिथिनक्षत्रादिकं सर्वमेव सामान्यतो निंद्यमुक्तं तत्किमत्रानयोर्योगयोः पुनर्ग्रहणेन ? उच्यते-यदा नक्षत्रयोगयोस्तुल्यकाले एव प्रवृत्तिनिवृत्ती तदाऽनयोर्योगयोरुपादानवैयर्थ्यमेव । यदा तु सूर्योदयादारभ्य कियद्धटिकत्वं दुष्टयोगयोर्नक्षत्रभोगस्तु सूर्योदयादेव बहुकालव्यापी तदा पातासंभवे तावत्कालस्यैव निषेधः सामान्यवाक्यात् । पातसंभवे हि संपूर्णस्य नक्षत्रस्य निषेधो यथा स्यादिति तयोर्दुष्टयोगयोः पुनरुपादानं कृतम् । एवमन्येध्वपि योगेषु पातसंभवे संपूर्णनक्षत्रस्य, निषेधो यथा स्यादित्यनयोर्दष्टयोगयोः पुनरुपादानं त्यागे इत्यर्थः । अयं च सर्वोऽपि विचार एकार्गलदोषेऽपि द्रष्टव्यः । यदातु पातैकार्गलौ न स्तस्तदा दुष्टयोगानामुक्तादिमघटीत्यागः कर्तव्य इति॥५०॥ ___ अथ सूर्यचंद्रक्रांतिसाम्यापरपर्यायं महापातदोषं शालिन्याहपंचास्याजौ गोमृगौ तौलिकुंभौ कन्यामीनौ कर्त्यली चापयुग्मे । तत्रान्योन्यं चंद्रभान्वोर्निरुक्तं क्रांतेःसाम्यं नो शुभं मंगलेषु ५९
पंचेति ॥ पंचास्याजौ=सिंहमेषौ, अन्ये प्रसिद्धाः; एषु राशियुग्मेषु चंद्रभान्वोः पाठक्रमेण व्युत्क्रमेण वा स्थितयोः क्रांतिसाम्यं निरुक्तं, तन्मंगलेषु नो शुभं स्यात् । अत्र पंचास्याजावित्येवमादीनां ग्रहणमुदाहरणदिक्प्रदर्शनार्थत्वात् । सर्वथा सूर्याचंद्रमसोः सायनयोर्योगः षड्राशिमितो द्वादशराशिमितो वा विवक्षितस्तदैव क्रांतिसाम्यस्य संभवात् । अतः संमतिवाक्यस्यानवसरः । नन्वेतावंत एव षडाशियोगा द्वादशराशियोगा वा संभवंतीति चेन्न । राश्यतावच्छेदस्थित्याऽधिका अपि योगा जायंते । तथा हि-2|3|81221.३४ 12/29/2018/ प्रत्यंशकलाविकलांतस्थितत्वेनानंतभेदसंभवाच । अतः प्रागुक्तं व्याख्यानं ज्यायः। क्रांतिसाम्यस्य च महापात इति नाम । एतस्य निंद्यतामाह वसिष्ठः-'दोषो महापात इति प्रसिद्धः स वैश्तो हंति वधू वरं च । तं रक्षितुं लग्नगुणास्त्वशक्ताः स्वबांधवास्तेऽशनितोपघातम् ॥' अशनिर्वब्रम् । नारदोऽपि-'यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे ॥' इति । अत एव पतनात्पातः सकलशुभकर्मणामित्यन्वर्थतापि । सा च स्पष्टा सोमसिद्धांते'यच्छुभानां विनाशाय नदन्निव पतत्ययम् । व्यतीपातः प्रसिद्धोऽत्र संज्ञाभेदेन वैधतिः ॥' इति । महापातशब्दस्य रूढिस्तु रवींदुक्रांतिसाम्य एव, नत्वन्येषां